________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
देवलोकतुल्या अभूत् । तथा शरदृतौ "हिमांशोः' चन्द्रस्य । 'महसां' तेजसाम् । 'भरैः' समूहैः । 'निशा' रात्रिः । 'दिनदेशीया' दिवसतुल्या। 'आसीत्' अभूत् । शरदि किल आकाशस्य स्वच्छत्वात् चन्द्रकिरणा: भास्वरा भवन्ति । अत: निशाऽपि दिवसतुल्या भातीत्यर्थः ॥ १५० ॥
राजसु द्वादशस्वेष, जिगीषुः शारदः शशी । गृहिव्रतेषु सर्वेषु, श्रीशालेर्दानधर्मवत् ॥ १४१ ॥
'श्रीशालेः' श्रीशालिभद्रस्य । 'सर्वेषु''द्वादशसु' 'गृहिव्रतेषु' श्रावकव्रतेषु । दानधर्मवत् । 'द्वादशसु' चैत्रादिमासानां द्वादश-चन्द्रेषु । 'राजसु' चन्द्रेषु नृपतुल्येषु । 'जिगीषुः' जयेच्छुः । एषः 'शारदः' शरदः अयं शारदः । 'शशी' चन्द्रः। शोभते स्म ॥ १४१ ॥
रविनव इवाभाति, जलदावरणात्ययात् । प्राग्जन्मनैः स्वनिर्णाशात्, तस्येव सुकृतोदयः ॥ १४२ ॥
'प्राग्जन्मनैः स्वनिर्णाशात्' सङ्गमभवदारिद्रयनाशात् । तस्य' शालेः । 'सुकृतोदयः इव' पुण्योदयः इव । 'जलदावरणात्ययात्' मेघावरणक्षयात् 'रविः' सूर्यः । 'नवः इव' नूतनः इव । 'आभाति' शोभते । यथा सङ्गमभवस्य दारिद्रयनाशात् शालिभद्रस्य सकृतोदयः सर्वाधिकः शोभते तथा मेघघटानाशात् शारदो रविरित्यर्थः ॥ १४२ ।।
मारुतैर्मालतीगन्धस्तायते भुवनान्तरे । बन्दिवृन्दैरिवामुष्य, यशः प्रसरसौरभम् ॥ १४३ ॥
'बन्दिवृन्दैः' चारणसमूहै: । 'अमुष्य' शालिभद्रस्य 'यशःसौरभमिव' कीर्तिप्रसार-सुगन्ध इव । 'भुवनान्तरे' जगति । 'मारुतैः' वायुसमूहै: । 'मालतीगन्धः' जातिपुष्पसुरभि । 'तायते' व्याप्नोति ॥ १४३ ॥
परं प्रसादमासेदुः, पयांसि शरदागमात् । सज्जनानां मनांसीव, शालिलीलाविलोकनात् ॥ १४४ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥१३६॥