________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालिः । 'घनाघनः इव' मेघः इव । 'उदारः' उदात्तः । 'सदा' नित्यम् । 'आसेचनकः' अतिदर्शनीयः । 'तदाऽऽसेचनकं यस्य दर्शनाद् दृग् न तृप्यति' इति हैम्याम् । 'अजनि' जातः ॥ १३७ ।।
शरद् वर्णनम्सितच्छदच्छदापातैः, पुङ्खसूत्कारसूचनैः । मेनेऽसौ स्मरवीरस्य, शरदं शरदण्डवत् ॥ १३८ ॥
'सितच्छदच्छदापातैः' हंसपक्षपतनैः । शरपक्षे-सितच्छदवत् श्वेता ये छदाः पर्णानि तेषां: पातैः । भवन्ति हि बाणपृष्ठे पर्णानि । 'पङ्घसूत्कारसूचनैः' पुङ्खा:-पुष्कला: ये सूत्कारशब्दाः हंसोड्डयनजाताः ते एव सूचनानि तैः । पक्षे बाणपृष्ठसूत्कारसूचनैः । असौ शालि: । 'शरदं' ऋतुम् । 'स्मरवीरस्य' कामयोधस्य । 'शर-दण्डवत्' बाणदण्डवत् । 'मेने' मनुते स्म । वर्षासमाप्तौ उड्डयन्ते हंसाः, युध्यन्ते च राजानः, तेनेयं कल्पना कवेः ॥ १३८ ।
अविश्रान्ताऽथ विश्रान्ता, वृष्टिसृष्टिः पयोमुचाम् । गोभद्रस्य न दिव्यश्री-दानध्यानरतिर्मतिः ॥ १३९ ॥
'अथ' शरदि । ‘पयोमुचां' मेघानाम् । 'अविश्रान्ता' अविरता । 'वृष्टिसृष्टिः' वर्षणकरणम् । 'विश्रान्ता' विरता। किन्तु 'गोभद्रस्य' सुरस्य । 'दिव्यश्रीदानध्यानरतिः' दिव्यलक्ष्मीदानस्य ध्याने एव रतिः यस्याः सा । 'मतिः' बुद्धिः। न विश्रान्ता ॥ १३९ ॥
निशाऽऽसीदिनदेशीया, हिमांशोम॑हसां भरैः । नरलक्ष्मीरिव स्वर्गकल्पाऽस्य सुकृतोदयैः ॥ १४० ॥ 'अस्य' शालिभद्रस्य । 'सुकृतोदयैः' पुण्योदयैः । 'नरलक्ष्मीः' मनुष्यश्रीः । 'इव' यथा । 'स्वर्गकल्पा'
82828282828282828282828282828282888
॥१३५॥