________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वर्षावर्णनम् जीमूता विधुदुद्योतैर्जगदालोक्य गर्जितैः । घोषयन्तीव भूपीठे, न शालेः सुन्दरः परः ॥ १३४ ॥
'जीमूताः' मेघाः । विद्युदुद्योतैः' तडित्प्रकाशैः । 'जगत्' विश्वम् । 'आलोक्य' दृष्टवा । 'गर्जितैः' गर्जारवैः । भूपीठे' पृथ्वीतले । 'शालेः' शालिभद्रात् । 'सुन्दरः' मनोरमः । 'परः' अन्यः । न अस्तीति । 'घोषयन्तीव' ज्ञापयन्तीव ॥ १३४ ॥
प्रभवन्ति गिरीन्द्रात्तु, सरितः कूलमुद्रुजाः । काष्ठाकूलङ्कषा भद्रानन्दनादिव कीर्तयः ॥ १३५ ॥
'गिरीन्द्रात्तु' हिमालयादिपर्वतेभ्यः, अत्र जातौ एकवचनम् । 'कूलमुद्रुजाः' कूलानि तीराणि उद्रुजन्ति हानि प्रापयन्ति ताः । कूलादुद्रुजौद्वहः ।५।२१२२।। इत्यनेन कूलमुद्रुजाः । 'सरितः' नद्यः । 'प्रभवन्ति' जायन्ते । 'भद्रानन्दनात्' भद्रापुत्रात् शालिभद्रात् । 'काष्ठाकूलङ्कषाः' काष्ठा: दिश: ताः एव कूलानि तानि कषन्तीत्येवंशीला: । कीर्तयः इव । शोभन्ते इति शेषः ॥ १३५ ॥
सौधस्या_लिहे श्रृङ्गे, जलकान्तमणीमये । सदा कृष्णागरुक्षोद-धूमनीलतमः प्रभे ॥ १३६ ॥ असौ सौदामिनी भामि-वल्लभाभिः पुरस्कृतः । घनाघन इवोदारः, सदाऽऽसेचनकोऽजनि ॥ १३७ ॥
'सौधस्य' प्रासादस्य । 'अभ्रंलिहे' गगनस्पशिनि । 'जलकान्तमणीमये' चन्द्रकान्तरत्ननिर्मिते । 'सदा' नित्यम् । 'कृष्णागरुक्षोदधूमनीलनभः प्रभे' कृष्णागरुचूर्णधूमैः नीला श्यामा नभ:प्रभा यस्य तस्मिन् । 'श्रृङ्गे' शिखरे ॥ १३६ ॥ 'सौदामिनी-भाभिः' विद्युत्कान्तिभिः । 'वल्लभाभिः' प्रियाभिः । 'पुरस्कृतः' मुख्यरूपेण परिवृतः इत्यर्थः । 'असौ'
ARRARAUAYA8A82828282828282888
॥१३४॥