________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
‘भ्रमद्भृङ्गझणत्कारिवर्यवैडूर्यकङ्कणा' भ्रमन्तो ये भृङ्गाः भ्रमराः ते एव झणत्कारिवर्यवैडूर्यकङ्कणानि झणत्कारनादकारीणि उत्तमवैडूर्यनिर्मितानि कङ्कणानि यस्याः सा । 'वनावलिः' वनश्रेणि: । 'माकन्दमञ्जरीहस्तै: ' सहकारमञ्जरीरूपैः हस्तैः । नृत्यन्ती इव ॥ १३० ॥
ग्रीष्मवर्णनम्
ग्रीष्मे कदम्बसन्दोहा, भान्ति पुष्पकदम्बकैः । शालेविशाललावण्या - लोकैः पुलकिता इव ।। १३१ ॥ 'ग्रीष्मे' ग्रीष्मर्तुसमये । 'शाले:' शालिभद्रस्य । 'विशाललावण्यालोकैः' विपुल - लवणिमदर्शनै: । 'पुलकिताः इव' रोमाञ्चिताः इव । ‘कदम्बसन्दोहा: ' कदम्बवृक्षसमूहाः । 'पुष्पकदम्बकै: ' कुसुम-समूहैः । 'भान्ति' शोभन्ते ॥ १३१ ॥
चन्द्रकान्तशिलाकान्त - चन्द्रशालाविलासिनः । चन्द्रिकाचारुचीरस्य, चन्द्रचूर्णाञ्चितद्युतेः ॥ १३२ ॥ शालेः सौख्यसुधासिन्धु-लिल्ये कल्लोललोलताम् । ग्रीष्मः पद्माकराणां हि, भीष्मस्तुच्छरसश्रियाम् ॥ १३३ ।। 'चन्द्रकान्तशिलाकान्तचन्द्रशालाविलासिनः ' चन्द्रकान्तशिलाकान्तादिरत्ननिर्मितायां चन्द्रशालायां विलसतीत्येवंशीलस्तस्य शालिभद्रस्य । 'चन्द्रिकाचारुचीरस्य' चन्द्रिकावत् चारूणि धवलानि चीराणि वस्त्राणि यस्य तस्य । 'चन्द्रचूर्णाञ्चितद्युतेः' कर्पूरचूर्णै: अञ्चिता युक्ता द्युतिः कान्तिः यस्य ॥ १३२ ॥ 'शाले:' शालिभद्रस्य । 'सौख्यसुधासिन्धुः' सुखामृतसागरः । 'कल्लोललोलतां' तरङ्गगचापल्यम् । 'लिल्ये' प्राप्त: । 'ग्रीष्मः ' ग्रीष्मसमयः । हि निर्णये। 'तुच्छरसश्रियां' हीनजललक्ष्मीणाम् । 'पद्माकराणां' जलायशानाम्। 'भीष्मः ' भयङ्करः । न तु जलनिधेः । तुच्छलक्ष्मीणां दरिद्राणां ग्रीष्मः भीष्मः, न तु शालिभद्रस्य शुष्यन्ति हि तटाकनद्यादयः ग्रीष्मर्ती, न तु समुद्रः । तद्वत् ग्रीष्मे अन्ये तापं कलयन्ति, शालिस्तु सौख्येमेवेति भावः || १३३ ||
KER
| तृतीयः
प्रक्रमः
।। १३३ ।।