________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
किंमूल्या इति राज्ञोक्ते, जगुस्ते जगतीपते । अमीषां स्वर्णलक्षण, क्षुल्लं मूल्यं प्रचक्षते ॥ १९ ॥
'किंमूल्या' किं मूल्यं येषां ते रत्नकम्बला: ?" इति 'राज्ञा' नृपेण । 'उक्ते' कथिते सति । 'ते' वणिजः । 'जगुः' भाषन्ते स्म । 'जगतीपते' हे पृथ्वीश । 'अमीषां' रत्नकम्बलानाम् । 'स्वर्णलक्षण' स्वर्णमुद्राणां लक्षण । 'क्षुल्लं' अल्पम् । मूल्यम् । 'प्रचक्षते' कथयन्ति । तज्ज्ञा: इति शेषः ॥ १९ ॥
इति तेषां वचः श्रुत्वा, राजा विस्मितमानसः । वाणिज्यकारकान् प्राह, श्रूयतां मे विचारणा ॥ २०॥
'इति' उपर्युक्तम् । 'तेषां' वणिजाम । 'वचः' वचनम् । 'श्रुत्वा' आकर्ण्य । 'विस्मितमानसः' आश्चर्याञ्चितचेताः । 'राजा' श्रेणिकः । वाणिज्यकारकान् । 'प्राह' वदति । 'मे' मम । 'विचारणा' चिन्तनम् । 'श्रूयतां' निशम्यताम् ॥ २० ॥
गजाश्वनररत्नानां, द्रव्यलक्षेण सङ्ग्रहः । सङ्ग्रामे विजयं धत्ते, कम्बलं किम्बलं पुन: ॥ २१ ॥
'द्रव्यलक्षण' द्रव्याणां सुवर्णमुद्राणां लक्षण। 'गजाश्वनररत्नानां' हस्ति-हय-मर्त्यरत्नानाम् । सङ्ग्रहः' परिग्रहः । सङ्ग्रामे' युद्धे । विजयम् । धत्ते' प्रापयति । कम्बलं पुनः । 'किम्बलं' किं बलं-शक्तिः यस्य तत् । अबलमेव सङ्ग्रामे इत्यर्थः । यदुक्तम्"लक्षेणाऽसमविक्रमः स करटी, कश्चित् समापद्यते, येनालकियते स्वराज्यमखिलं द्वारि स्थितेनाऽप्यलम् । युद्धे वैरिबलं विजित्य निखिलं, लक्षाण्यनेकान्यपि, प्राप्यन्ते तदमीभिरत्र किमहो ! कर्तव्यमांशुकैः?" (शार्दूल.) ।। २१ ।।
मार्गणेषु द्विधा राज्ञां, युज्यते लक्षयोजना । वस्त्रादिषु तु श्रृङ्गार-हारिणां व्यवहारिणाम् ॥ २२ ॥ 'मार्गणेषु' शरेषु याचकेषु च । 'राज्ञां' नृपाणाम् । 'द्विधा' द्विप्रकारा । 'लक्षयोजना' शरपक्षे लक्ष्यवेधः याचकपक्षे
satasa8RSR88RSONASRSASASASRSASASNA
॥१४७॥