SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रेरकाशीर्वचनम् शालिभद्र महाकाव्यम् 82828ksa 8282828282828282828282828282 प्रेमपीयूष पाथोधि-परमानन्ददायकैः । श्रीमद्भिः प्रेमसूरीन्द्रैः, प्रोक्तं मे प्रेमपूर्वकम् ॥ १ ॥ पुण्यपालमुने ! किञ्चित्, कर्मसाहित्यगोचरम् । कार्य कार्यं त्वया रम्यं, नवीनं बालबोधकम् ॥ २ ॥ धर्मकुमारदृब्धे वा, काव्ये श्रीशालिभद्रके । कार्या वृत्तिस्त्वया स्पष्टाऽऽबालगोपालबोधिनी ॥ ३ ॥ (त्रिभिविशेषकम्) श्रृत्वेत्थं शकुनग्रन्थिः, बद्धा तन्निर्णीतं तथा । साद्यावधि न सञ्जाता, किन्तु देहादिदोषतः ॥ ४ ॥ अन्यदा मुनिचन्द्रश्री-मुनिचन्द्राय धीमते । मयोक्तं कुरु वृत्ति भो !, सर्वसाधारणी नवाम् ॥ ५ ॥ मदुक्ति हदि सन्धार्य, तैरपि सा कृता नवा । "सज्जनाः शोभने कार्ये, सक्रियाः सर्वदा खलु" ॥ ६ ॥ पण्डितैश्च मया दृष्टा, सैषा मन्ये भविष्यति । भव्यात्महृदये नूनं, चन्द्रिकेव प्रकाशदा ॥ ७ ॥ तथा चदुःखमार्गाद् विरक्तिश्च, सुखादज्ञानमूलकात् । विरतिश्च रतिर्मोक्षे, भव्यानां सम्भविष्यति ॥ ८ ॥ पठनात् पाठनाच्यास्य, निदिध्यासनतस्तथा । भवविरहसम्प्राप्त्या, धन्याः सर्वे भविन्त्विति ॥ ९ ॥ - पं. श्री पुण्यपालविजयो गणी [पू.आ.श्री विजयपुण्यपालसूरिः] पालीताणा, महाराष्ट्र भुवन : वि.सं. २०४६, माघ शु. १५ 82828282828282828282828282828282888 ॥२२॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy