________________
श्री शालिभद्र
महाकाव्यम्
सधन्येन मुनिना समं वैभारगिरेस्तप्तशिलायामनशनं विधायोपशम श्रेणिसम्बन्धिनी - मात्मविशुद्धि समुपलभ्य सर्वार्थसिद्धविमाने देवो जात: । ततो महाविदेहे जन्म लब्ध्वा मुक्तिसुखस्वामी भविष्यति ।
इत्थं सुपात्रदानप्रभावाद् रङ्गः सङ्गमः श्रेष्ठी श्रीशालिभद्रो भूत्वा शीलतपः प्रभावात् प्रकृष्टं श्रमणत्वं परिपाल्य विशुद्धभावसामर्थ्यात् सद्गतिसिद्धिगतिभाग् जातः ।
पण्डितमुनिश्रीधर्मकुमार विरचित शालिभद्रमहाकाव्यस्य सानुवादटीकाविधायिनो मुनिश्रीमुनिचन्द्रविजयस्य च परिश्रमः प्रशंसार्हः । यतः एतत् कार्यं भव्यात्मनामेतत्काव्यपरिशीलने सहायकं भविष्यति ।
सर्वे मुमुक्षव इमं ग्रन्थं मननपूर्वकमधीत्य चतुर्विधधर्माराधनायां सविशेषमुद्यमभाजो भवन्त्विति कामये । विजयकलापूर्णसूरिः जैन उपाश्रय, प्रागपर ( कच्छ-वागड ) वि.सं. २०४६, चैत्र ब. ४ दिनांक १४-०४-१९९०
TRERERERE
GRERE DE R
॥ २१ ॥