________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
दान - धर्म - महिमा
विश्ववन्दनीया विश्वेश्वरा विश्वोपकारिणश्चरमतीर्थाधिपतयो
भगवन्तः श्रीमहावीरस्वामिनो ऽखिलविश्वकल्याणार्थं दानशीलतपोभावरूपं धर्मं प्रकाशितवन्तः । तच्चतुर्विध- धर्मे दानधर्मः किल प्रधानः । दानेनैव धर्म आरभ्यते । दानं खलु धर्मप्रासादे मुख्यं द्वारम् । तद्धि दया दम- जनकमस्ति ।
धनसार्थवाह-नयसारौ सुपात्रदानप्रभावादेव प्रथमान्तिम तीर्थंकरौ जातौ । सुपात्रदानात् पुण्यानुबन्धिपुण्यं प्रकर्षं याति तच्चासकृदनुमोदनातो वृद्धिमेव गच्छति ।
शालिभद्रेण हि सङ्गमभवे तपस्विमुनिप्रदत्तपरमान्नदानेन तस्य च मुहुर्मुहुरनुमोदनाद्वारा भृशं पुण्यप्रकर्षः उदपादि यत्प्रभावात् मानवजन्म, उत्तमसमृद्धकुलम् उत्तम-जातिः, निर्मलबुद्धिः सद्गुरुयोगः संवेगवैराग्यौ, चारुचारित्राराधनाकरणबलमित्यादिका दुर्लभा धर्मसामग्री प्राप्ता । इदृगपूर्वदानमहिमा शालिभद्रजीवने प्रत्यक्षमुपलभ्यते । अस्मिन् ग्रन्थे मधुरकाव्यरूपेण शालिभद्रस्य सम्पूर्णं जीवनं गूढार्थमय्या भावपूर्णया काव्यभाषया वर्णितमस्ति यन्मननपूर्वकं वारंवारं वाच्यमानं हृदयमन्दिरेऽपूर्व भावोल्लासानाविर्भावयति ।
सुखसमृद्धिललितः शालिभद्रोऽकस्मादेवैकं लघुनिमित्तमधिगम्य तपस्त्यागमयं दुष्करं संयमं साधयितुं श्रमणभगवच्छ्रीमहावीरस्वामिनं शरणं प्रपन्नः । अनन्त - लब्धिनिधान श्रीगौतमस्वामिनोऽन्तिके चाचाराङ्गाद्येकादशाङ्गान्यधीत्य विशुद्धं श्रमणजीवनं पालयामास । द्विविधं तपस्तप्त्वा कार्य कषायाँश्चात्यन्तं कृशीचकार । विपुलसंवेगवैराग्यरसे रममाणः
| GRERERERERI
॥ २० ॥