________________
श्री
शालिभद्र महाकाव्यम्
FRERER
उत्तरदक्षिणौ ॥ १११ ॥ 'प्रथमप्रावृडम्भोदे' प्रथमवर्षावारिदे। 'महीहिते' मह्यां पृथिव्यां हिते हितरूपे । 'विद्युद्वृष्टी' विद्युत् तडित् वृष्टि: वर्षणं, ते । तद्वत् । 'मर्त्यामर्त्यश्रियौ' देवनरलक्ष्म्यौ । 'विश्वोत्तरे' जगदुत्तमे । 'अत्रैव' शालिभद्रे एव । 'समीयतुः समागते ॥ १२० ॥
मन्दारमालया मूर्तिर्यस्याऽमन्दा रमालया । भेजुस्तं ऋतवो भद्रानन्दनं नन्दनं वनम् ॥ १२१ ॥
'यस्य' शालेः । 'अमन्दा' स्फूर्तिमती । 'मूर्ति' शरीरम् । 'मन्दारमालया' कल्पवृक्षमालया । 'रमालया' रमाया: लक्ष्म्या: आलयरूपा निवासरूपा अस्ति । तं भद्रानन्दनं' भद्रापुत्रं भद्रामातुर्वा आनन्दनः आनन्दकरस्तम् । 'नन्दनं वनं' नन्दनवनतुल्यं शालिभद्रम् । ऋतवः वसन्तादि षड् ऋतवः । 'भेजुः सिषेविरे ॥ १२१ ॥
तत्रानङ्गस्तदङ्गेन, विजितो जितकाश्यपि । प्रजिघाय मधुं मित्रं, साधुसन्धानसन्धया ॥ १२२ ॥
‘तत्र' शालिविषये । ‘जितकाशी अपि' जितयुद्धोऽपि । 'जिताहवो जितकाशी' इति हैम्याम् । 'अनङ्गः' कामः । 'तदङ्गेन' शालिभद्रशरीरेण । विजितः पराभूतः सन् । 'साधु सन्धानसन्धया' साधु सम्यक्प्रकारेण सन्धाने - शरसन्धाने सन्धया- कृतया प्रतिज्ञया । 'मित्र' स्वसुहृदम् । 'मधुं' चैत्रमासं वसन्तं ऋतुम् । 'प्रजिघाय प्रेषितवान् ॥ १२२ ॥
वसन्तवर्णनम्
दिगन्तानपि सौरभ्यकलया लालयत्यलम् । दूरितोद्दामदुर्गन्धमालया मलयानिलः ॥ १२३ ॥
'दूरितोद्दामदुर्गन्धमालया' दूरिता अपास्ता उद्दामदुर्गन्धमाला उत्कटदुर्गन्धश्रेणिः यया सा तया । 'सौरभ्यकलया' सुगन्धकलया । 'मलयानिलः ' मलयाद्रिपवनः । दिगन्तानपि । 'अलं' अत्यर्थम् । 'लालयति' सुगन्धेन पूर्णीकरोति ॥। १२३ ।।
k32
TREREREA
तृतीय:
प्रक्रमः
॥ १३० ॥