________________
श्री
शालिभद्र महाकाव्यम्
GRERERE
किलासौ हंसचारज्ञः, सुरभिर्दक्षिणानिलैः । श्वासैर्नासान्तरन्यासैः, मानिनीर्वशमानयत् ॥ १२४ ॥ किलः निश्चये । 'असौ' शालिभद्रः । 'हंसचारज्ञः' स्वरसञ्चारविज्ञः । वसन्तपक्षे सूर्यचारविज्ञः । हंसविहारविज्ञो वा 'ब्रुध्नो हंसञ्चित्रभानुर्विवस्वान्' इति हैम्याम् । 'दक्षिणानिलैः' अनुकूल श्वासैः । पक्षे दक्षिण- दिक्पवनैः मलयानिलैः । मलयाद्रिः किल दक्षिणदिशि वर्तते अतः तद्दिश: वायुः मलयानिलः कथ्यते । 'सुरभि:' सुगन्धः तद्रूपः शालिभद्रः । पक्षे - वसन्तः । 'वसन्त इष्यः सुरभिः' इति हैम्याम् । 'नासान्तरन्यासैः' नासान्तरे नासिकायाः अन्यच्छिद्रे न्यासः स्थापना येषां तै: । 'श्वासैः' सव्यापसव्यश्वासैः । पक्षे-पवनैः । 'मानिनी' कामिनीः । वशमानयत्' वशीचक्रे । यन्नासिकाच्छिद्रे श्वासश्चलति तत्पार्श्वे स्थापिताः कामिन्यः किल वशीभवन्तीति स्वरविदः ॥ १२४ ॥
वसन्तः श्वसनी सर्पः, श्वासैः स्वैर्मलयानिलैः । तदीयश्वाससम्पृक्तैः, पान्थानुन्मन्थयत्यहो ॥ १२५ ॥
'श्वसनी' श्वसनः पवनः सोऽस्ति यस्य सः श्वसनी फूत्कार - कारी । 'सर्पः' अहि: फूत्कारभीषणः । 'वसन्तः ' फूत्कारकारिसर्पतुल्य: वसन्त: । 'तदीयश्वाससम्पृक्तैः ' शालिश्वाससंयुक्तैः । 'स्वैः ' निजै: । 'मलयानिलैः' मलयगिरिपवनैः । श्वासैः । 'अहो' आश्चर्ये । पान्थान्' प्रवासिनः । 'उन्मन्थयति' व्याकुलयति उन्मादयतीत्यर्थः ॥ १२५ ॥
काचकुम्भं कलाकेलिं किं मधुः काचकारकः । मलयानिलफूत्कारै, रसपात्रमसूत्रयत् ॥ १२६ ॥ 'काचकारकः' क्षारकारकः क्षारादिद्रव्यसंयोगकारी धातुवादीत्यर्थः । 'मधुः' वसन्तः । मलयानिलफूत्कारैः । 'काचकुम्भं' क्षारघाटरूपम् । 'कलाकेलिं' कामम् । 'कलाकेलि रनन्यजोऽङ्गजः' इति हैम्याम् । किं रसपात्रं- पारदमात्रम् । 'असूत्रयत्' कृतवान् ? ॥ १२६ ॥
ERERERY
SEREREDER
तृतीयः
प्रक्रमः
॥ १३१ ॥