________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
विजयाः, ते च द्वात्रिंशत् सन्ति । प्रेमनाटके । 'रसाविर्भावपात्राणि' रसप्रादुर्भावभाजनानि । 'पात्राणि इव' द्वात्रिंशत् पात्राणि इव ॥ 'विषमायुधयोधस्य' विषमायुधः कामः, सः एव योधः सुभटः तस्य । 'भल्लयः' कुन्ताः । 'गुणवल्लयः' द्वात्रिंशद् गुणानां वल्लिरूपाः । 'देशसहस्राणां' देशानां द्वात्रिंशत्सहस्राणि तेषाम् । 'भारतानां' भरतस्य इमानि भारतानि तेषाम् । 'श्रियः इव' द्वात्रिंशत् लक्ष्म्यः इव । 'आहृताः' समानीता: ।। 'श्रीसौधर्मविमानीयलक्षाणां' द्वात्रिंशल्लक्षसौधर्मविमानानाम् । 'सौख्यवर्णिकाः' सुखावयवाः । (वणिका:-वानगी इति भाषायाम्) सम्पूर्णपुरुषाहारप्रदानस्य । फलानि । द्वात्रिशद्वार्णिकाभिः कवलैर्वा सम्पूर्णपुरुषाहारो भवति ॥ पुनः कथम्भूता: ता:? 'त्रिलोकीललनालोकललामसुषमाक्षमाः' त्रिजगतीरमणीजनेषु ललामानि तिलकानि तेषां सुषमा-अतिशायिनी शोभा तस्यां क्षमाः समर्थाः ॥ ११३ ॥ ११४ ॥ ११५ ॥ ११६ ॥ ११७ ॥
महामुनौ धृतिमती, उक्तियुक्तीव वादिनि । बुद्धिसिद्धि इवामात्ये, भुक्तिमुक्तीव योगिनि ॥ ११८ ॥ पुष्पदन्तप्रभे मेरौ, गङ्गासिन्धू महार्णवे । वैताढ्यपर्वते विद्या-धरश्रेण्याविवोत्तमे ॥ ११९ ॥ प्रथमप्रावृडम्भोदे, विद्युतॄष्टी महीहिते । मामर्त्यश्रियौ विश्वोत्तरेऽत्रैव समीयतुः ॥ १२० ॥
'महामुनौ इव' मुनिपुङ्गवे इव । 'धृतिमती' धैर्यधियौ । 'वादिनि इव' ताकिके इव । 'उक्तियुक्ती' वचनतकौं । 'अमात्ये इव' मन्त्रिणि इव । 'बुद्धिसिद्धी' मति-कार्यसिद्धि । योगिनि इव । 'भुक्तिमुक्ती' निजानन्दभोगरूपा भुक्तिः, रागादिविभावाच्च मुक्तिः ते ॥ ११८ ॥ मेरौ । 'पुष्पदन्तप्रभे' सूर्यचन्द्रकान्ती । 'पुष्पदन्तावेकोक्तया शशिभास्करौ' इति हैम्याम् । 'महार्णवे' महासागरे लवणे । 'गङ्गासिन्धू' तन्नाम्यौ नद्यौ । वैताढ्यपर्वते इव । 'उत्तमे' श्रेष्ठे । 'विद्याधरश्रेण्यौ'
828282828282828282828282828282828482
॥१२९॥