________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
ऊर्ध्व' समेन किल ऊर्ध्वंस्थितेन मुनये परमान्नं प्रदत्तमत: स्थानाद् ऊर्ध्वम् । प्रवर्धमानभावधारया भावतोऽपि ऊर्ध्वम् । शालिसुखमपि अन्यजनस्थानात् ऊर्ध्वं उपरिस्थितम् । 'स्ववंशोच्चं' स्ववंशे उच्च उन्नतम् । 'धनसम्भावाधिकं' धनसम्भावनायाः अधिकम् । स्वधनादपि अधिकम् । सुखपक्षेऽपि स्वधनाद् अधिकत्वाद् अधिकम् । 'सन्तोषपोषकं' सम्यक् तोषस्य आनन्दस्य पोषकम् पुष्टिकारि । शालिसुखमपि सन्तोषपोषकमेव ॥ ११० ॥ १११ ॥ ११२ ॥
प्रत्यक्षा लक्षणानां ता, आयाता देवता इव । मिथुनाहविभागस्य, द्वात्रिंशद् घटिका इव ॥ ११३ ॥ तत्पुण्यस्य विदेहस्य, विजया वा समस्थितेः । रसाविर्भावपात्राणि, पात्राणि प्रेमनाटके ॥ ११४ ॥ विषमायुधयोधस्य, भल्लयः गुणवल्लयः । श्रियो देशसहस्त्राणां, भारतानामिवाहृताः ॥ ११५ ॥ श्रीसौधर्मविमानीय-लक्षाणां सौख्यवर्णिकाः । सम्पूर्ण पुरुषाहार-प्रदानस्य फलानि वा ॥ ११६ ॥ त्रिलोकीललनालोक-ललामसुषमा क्षमाः । शशालिरे विशालाक्ष्यः, श्रीशाले: पुण्यशालिनः ॥ ११७ ॥
'पुण्यशालिनः' पुण्याढ्यस्य । 'श्रीशाले:' श्रीशालिभद्रस्य । 'विशालाक्ष्यः' विपुलनयना: द्वात्रिंशत् प्रियाः । 'शशालिरे' शोभन्ते स्म । कथम्भूता: ताः द्वात्रिंशत् प्रियाः ? 'लक्षणानां' द्वात्रिंशल्लक्षणानाम् । 'प्रत्यक्षाः' साक्षात् । 'आयाताः' आगताः । 'देवताः इव' देव्यः इव । 'मिथुनाहविभागस्य' मिथुनस्थसूर्यदिनविभागस्य । द्वात्रिंशद् घटिकाः इव । सूर्ये मिथुनस्थे द्वात्रिंशद्घटिकाप्रमाणो दिवसो भवति ॥ 'समस्थितेः' समानस्थितिकस्य पुण्यस्य । महाविदेहपक्षेसमसमयस्थितेः, महाविदेहे किल चतुर्थारकप्रारम्भसमयसमः एव सर्वदा समय: भवति । 'विदेहस्य' देहहीनस्य अमूर्तस्य पुण्यस्य । लौकिकदृष्ट्या पुण्यममूर्तं गण्यते । पक्षे महाविदेहक्षेत्रस्य । 'विजयाः' द्वात्रिंशत् जयाः । पक्षे-महाविदेहक्षेत्र
satasa8RSR88RSONASRSASASASRSANASNA
॥१२८॥