________________
श्री
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अदृष्टमश्रुतं पूर्वं, परानीतमचिन्तितम् । एकान्तस्वादु सम्पूर्णमद्वितीयमखण्डितम् ॥ ११० ॥ स्पर्धाहीनं च निर्मायमगर्वं नानुतापि च । स्थानादूर्ध्वं स्ववंशोच्चं, धनसम्भावनाधिकम् ॥ १११ ॥ सन्तोषपोषकं दानं षोडशांशमदादयम् । तादृगाप सुखं कार्यं, निदानानुगुणं यतः ॥ ११२ ॥
'अयं' शालिभद्रः । 'षोडशांशं' षोडश अंशा: यस्मिन् तत्, सम्पूर्णमित्यर्थः । षोडशाऽऽनकैरेकं पूर्ण रूप्यकं भवति, षोडशकलाभिश्च पूर्ण: चन्द्रः । अत्रापि षोडश विशेषणानि दानस्य । दानम् । 'अदात्' ददौ । सुखमपि । 'तादृग्' दानसदृशम् । 'आप' प्राप्तः । 'यतः' यस्मात् । कार्यम् । 'निदानानुगुणं' कारणानुरूपम् भवति ॥ ११२ ॥ कथम्भूतं तद्दानं तत्सुखं च? 'पूर्व प्राग् । 'अदृष्ट' अप्रेक्षितम् । 'अश्रुतं' अनाकर्णितम् । सङ्गमेन तादृग् दानं पूर्व कदापि न दृष्टं श्रुतं वा । न च शलिभद्रेण पूर्वभवेषु तादृक् सुखं दृष्टं श्रुतं वा । 'परानीतं' परैः सङ्गमाद् अन्यैः | अनीतं-अकृतम् । सुखपक्षे परेण गोभद्रदेवेन आनीतं परानीतं सुखम् । 'अचिन्तितं' अचिन्तनात् । मुनिः आयास्यति तस्मै च दानं दास्यामीति पूर्वं सङ्गमेन न चिन्तितम् । सुखपक्षे-शालिभद्रेणाऽपि कदापि न चिन्तितं यत् अहं गोभद्रदेवप्रेषितं सुखं लप्स्ये । 'एकान्तस्वादु' सर्वथा सुन्दरं दानं सुखं च । 'सम्पूर्ण' समस्तपरमान्नादानात् सम्पूर्णम् । दिव्यवस्त्रभोज्यभूषणलाभात् सुखमपि सम्पूर्णम् । 'अद्वितीयं' अनन्यम् । 'अखण्डितं' भावधाराऽखण्डनात् अखण्डितं दानम् । शालिसुखमपि शत्रुजनैः अखण्डितत्वात् अखण्डितमेव ॥ ११० ॥ 'स्पर्धाहीनं' सङ्गमेन तदा केनाऽपि नैव स्पर्धा कृता । शालिभद्रस्य सुखमपि स्पर्धाहीनमेव । 'निर्मायं' माया-रहितम् । 'अगर्वं' गर्वरहितम् 'न अनुतापि' न पश्चात्तापसहितम् । मम्मणजीववत् सङ्गमेन न पश्चात्तापः कृतः । शालिसुखमपि न अनुतापि न सन्तापकारि । 'स्थानाद्
satasa8RSR88RSONASRSASASASRSANASNA
॥ १२७॥