________________
श्री
शालिभद्र महाकाव्यम्
FRERER
यवाः राजादन्यश्च इत्यादीनां लाभे लोलुपं चेतो येषां ते पक्षिणः 'अन्यत्र' स्वजन्मस्थानात् अन्यस्थाने । दूरमन्तरम् । 'भ्राम्यन्ति' अटन्ति । पक्षे उड्डयन्ते ॥ १०६ ॥
ज्योतिष्काः सेवकप्राया, निश्चितागमनिर्गमाः । बालवृद्धोदयास्तोक्त्या, किञ्च नित्यं विडम्बिताः ॥ १०७ ॥ 'ज्योतिष्काः ' सूर्यचन्द्रादिसुराः । सेवकप्रायाः' दासतुल्याः । 'निश्चितागमनिर्गमाः ' निश्चितौ आगमनिर्गमौ येषां ते । 'बालवृद्धोदयास्तोक्त्या' बालवृद्धौ उदयास्तौ इत्याद्युक्त्या इत्यादिवचनैः । किञ्च नित्यं सदा । 'विडम्बिता:' विडम्बनां प्राप्ताः । कुर्वन्ति हि गणका : सूर्यादिग्रहेषु बालवृद्धोदयास्तशब्दप्रयोगान् ॥ १०७ ॥
अपि वैमानिका देवाः, स्वामिसेवकभावतः । परतन्त्रा विषादाद्यैरन्तः शल्यैश्च दुःखिताः ॥ १०८ ॥ 'वैमानिका:' सौधर्मादिविमानवासिनः । 'देवाः अपि सुराः अपि । स्वामिसेवकभावत: । 'परतन्त्राः ' पराधीनाः । 'विषादाद्यै' 'अन्तःशल्यै:' हृदये शल्यतुल्यैः विषादेर्ष्याद्यैः । देवाङ्गनादीनां वियोगेऽपहरणे वा भवति हि विषादेर्ष्यादिकम् । चः समुच्चये । 'दुःखिताः ' दुःखं प्राप्ताः ॥ १०८ ॥
कल्पातीता असत्कल्पा, अर्हत्कल्याणकेष्वपि । अधिकस्त्वेष देवेभ्यः, पुरुषार्थत्रयीमयः ॥ १०९ ॥ 'कल्पातीताः ' ग्रैवेयकानुत्तरदेवा: । 'अर्हत्कल्याणकेषु अपि अर्हतां जिनानां जन्मादिकल्याणकेषु अपि । 'अस्तप्रायाः' असद्भूततुल्याः, तत्र अविद्यमानत्वात् । कल्पातीताः देवाः न कदापि अत्र आगच्छन्ति, अर्हत्कल्याणकेषु अपि न आगच्छन्ति, ततः ते असत्कल्पा: । 'पुरुषार्थत्रयीमयः' धर्मार्थकाममयः । एषः ' शालि: । 'देवेभ्यः' भवनपतिव्यन्तर- ज्योतिष्क- वैमानिक कल्पातीत देवेभ्यः । 'अधिकः' अधिकपुण्यवान् अस्ति ॥ १०९ ॥
KER
तृतीय:
प्रक्रमः
॥ १२६ ॥