________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
देवप्रेषितकुसुमसमूह: 'तदङ्गसङ्गमं' शालिदेहसंस्पर्शम् । 'सदा' चिरम् । 'न आप' न प्राप्त: । 'तस्य' सुरपुष्पौघस्य श्रेणिकस्य च । इयत् पुण्यं कुतः ? विकसित: सुप्रेषितपुष्पसमूहः सदा तत्स्पर्श न प्राप । विद्वान् श्रेणिकराजाऽपि चिरं तस्य सङ्गमं न प्राप । तयोः इयत् पुण्यं कुतः ? इति भावः ॥ १०३ ॥
देवानामपि साध्येषु, पूर्वं व्याप्रियते मनः । तस्यार्थास्तु स्वयं सिद्धाः, तेभ्यः पुण्याधिकः स तत् ॥ १०४॥
'देवानामपि' सुराणामपि । 'साध्येषु' करणीयेषु कार्येषु । 'पूर्व' प्रथमम् । 'मनः' चेतः । 'व्याप्रियते' अवधिज्ञानेन प्रयुज्यते । तदनन्तरं तैः पदार्थाः प्राप्यन्ते । 'तस्य' शालिभद्रस्य । 'अर्थाः' पदार्थाः । 'स्वयं' सिद्धाः' विचारणामन्तरेणाऽपि प्राप्ताः । 'तत्' तस्मात् । 'तेभ्यः' देवेभ्य: । 'सः' शालिः । 'पुण्याधिकः' अधिकपुण्यवान् ॥ १०४ ॥
भुवनाधीश्वरा बिभ्रत्यासुरीं भावनां ततः । द्वधाऽप्यधस्कृतास्तेन, नरकप्रातिवेश्मिकाः ॥ १०५ ॥
'भुवनाधीश्वराः' भुवनपतय: देवाः । 'आसुरीं' दानवीम् । 'भावनां' विचारणाम् । 'बिभ्रति' धारयन्ति । 'तेन' तेन कारणेन । 'नरकप्रातिवेश्मिकाः' नरकनिकटवर्तिनः ते असुराः । द्वेधापि' उत्तरदक्षिणविभागात् द्विधापि । 'ततः' शालिभद्रात् । 'अधस्कृताः' रत्नप्रभाभूमिमध्यभागे नीचस्थाने स्थापिताः । वसन्ति हि भुवनपतिदेवा रत्नप्रभापृथिव्याम् ।। १०५ ॥
व्यन्तरैरन्तरं दूरं, जन्मान्यत्रापि पक्षिवत् । भ्राम्यन्ति ये करम्भादि-लाभलोलुपचेतसः ॥ १०६ ॥
'व्यन्तरैः' देवविशेषैः । 'पक्षिवत्' विहङ्गवत् । 'जन्म' जीवनम् । 'आपि' लब्धम् । ये करम्भादिलाभलोलुपचेतसः करम्भः दधिमिश्रितसक्तुकं ('करंबो' इति भाषायाम्) इत्यादिलाभे लोलुपं चेतः येषां ते । पक्षिपक्षे-करम्भाः भृष्टाः
ARRARAUAYA8A82828282828282888
॥१२५ ॥