________________
श्री शालिभद्र
महाकाव्यम्
CHEKER
'तद्दत्तदिव्यभोगाङ्गैः' तद्दत्तैः गोभद्रदत्तैः भोगाङ्गैः भोगासाधनैः । कन्दर्पदर्पहृत्' रूपेण कन्दर्पस्य कामस्य दर्पहृत् गर्वहारी । 'शालि: ' शालिभद्रः । 'प्रत्यक्षः ' साक्षात् । 'श्रृङ्गार रसराजः इव'
रसाधिराज श्रृङ्गारः इव । 'विराजते ' शोभते ॥ ९९ ॥ तत्पष्टपेषणं चक्रुरथ चर्वितचर्वणम् । देवास्तमेव श्रृङ्गारं यावज्जीवं वहन्ति यत् ॥ १०० ॥ 'देवा:' सुराः । 'तमेव' पूर्वपरिभुक्तमेव 'श्रृङ्गारं ' भूषणादिकम् 'यावज्जीवं' जीवनपर्यन्तम् । यद् वहन्ति धारयन्ति तत् । 'पिष्टपेषणं' पिष्टस्य पेषणम् । अथवा 'चर्वितचर्वणं' चर्वितस्य चर्वणम् । 'चक्रुः' कुर्वन्ति स्म ॥ १०० ॥ सुधीर्वक्तेव नव्यार्थ नव्यं काव्यं महाकविः । प्रतिप्रभातमाधत्त स श्रृङ्गारं नवं नवम् ॥ १०१ ॥ 'सुधीः वक्ता इव' विद्वान् व्याख्याता यथा । 'नव्यार्थं ' नूतनचिन्तनम् । 'महाकविरिव' महान् कविः यथा । नव्यं काव्यम् । तथा 'प्रतिप्रभातं' प्रतिप्रगे । 'सः' शालिभद्रः । नवं नवम् । 'श्रृङ्गारं' भूषणादिकम् । 'आधत्त' धारयति स्म ॥ १०१ ॥
वासांस्यनुपरक्तानि वनमालाममीलिताम् । सुरा नोज्झन्ति ताम्बूल - मिव ग्रामेयकाश्चिरम् ॥ १०२ ॥ 'ग्रामेयकाः इव' ग्रामीणजनाः इव ।' 'चिरं चिरकालं यावत् । 'ताम्बूलं' मुखवासादिकम् । 'न उज्झन्ति ' न त्यजन्ति । तथा सुराः अपि देवाः अपि । 'अनुपरक्तानि' प्रस्वेदरेण्वादिभि: अमलिनानि । 'वासांसि वस्त्राणि । 'अमीलितां' अम्लानाम् । 'वनमालां' पुष्पमालाम् । न उज्झन्ति ॥ १०२ ॥
पार्थिवः सुरपुष्पौघः प्रबुद्धोऽपि सदा चिरम् । तदङ्गसङ्गमं नाप, तस्य पुण्यमियत्कुतः ? ॥ १०३ ॥ 'पार्थिवः' पृथ्वीजातः । पक्षे - राजा श्रेणिकः । 'प्रबुद्धोऽपि' विकसितोऽपि । पक्षे - विद्वानपि । 'सुरपुष्पौघः '
GRERERY
तृतीय:
प्रक्रमः
॥ १२४ ॥