________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
SASASAR 8282828282828282828282828282
विवाह्य बाह्यलोकेषु, सुतं शेते सुखं पिता । लोकलज्जैव सज्जैतच्चित्ते स्नेहो न देहजे ॥ ८९ ॥
'बाह्यलोकेषु' सामान्यजनेषु । 'सुतं' पुत्रम् । 'विवाह्य' उद्वाह्य । 'पिता' जनकः । 'सुखं' सुखपूर्वकम् । । 'शेते' विश्रान्ति करोति निश्चिन्तो भवतीत्यर्थः । 'एतच्चित्ते' सामान्य-पितचित्ते । 'लोकलज्जा' लोकेभ्यः लज्जा, यदि अहं पुत्रं न विवाह-सम्बन्धेन योक्ष्ये तर्हि लोकः न जाने किं कथयिष्यति इत्येवम्भूता लज्जा । एवकारः अवधारणे । 'सज्जा' मनसि स्थिता । 'न देहजे' न पुत्रे । 'स्नेहः' प्रीतिरस्ति ।। ८९ ॥
तातः प्रीतिपरः कोऽपि, द्रव्यभागार्पणावधि । पृथग्भूतं यथा प्राहुः, तद्वक्तुमपि नेष्यते ॥ ९० ॥
'कोऽपि' कश्चित् । 'तात:' जनक: । 'द्रव्यभागार्पणावधि' सुतेषु धनविभाजनं यावत् । 'प्रीतिपरः' स्नेहसहितः भवति 'पृथग्भूतं' स्वत: वियुक्तम् पुत्रम् । 'यथा' येन प्रकारेण । 'प्राहुः' वदन्ति गालिप्रदानादिना । 'तद्' पितृभाषणम् । 'वक्तुमपि' भाषितुमपि । 'नेष्यते' न शक्यते इत्यर्थः ॥ ९० ॥
विरल: सरलः कोऽपि, सुकृती निकृति विना । यावज्जीवं सुतार्थानां, धर्मवत्पोषकः पिता ॥ ९१ ॥
'विरलः' पेलवः । 'सरल:' प्राञ्जलः । 'सुकृती' पुण्यवान् । कोऽपि पिता-जनकः भवति । य: 'निकृति विना' कपटं स्वकीयस्वार्थम् विना । 'यावज्जीवं' आजीवनम् । 'सुतार्थानां' पुत्रप्रयोजनानाम् । धर्मवत् पोषक: स्यात् ॥ ९१ ॥
सुद्रव्यस्य सुतस्यार्थे, नोद्वहत्यपरां प्रियाम् । अनीतिमिव कोऽप्येकः, कन्दर्पाकम्पितः पिता ॥ ९२ ॥
'सुद्रव्यस्य इव' न्यायोपार्जितधनस्य इव । 'सुतस्य अर्थे ' पुत्रस्य कृते । अनीतिमिव । 'अपरां' अन्याम् । 'प्रियां' पत्नीम् । 'कन्दर्पाकम्पितः' कन्दर्पण कामेन अकम्पित: अजितः । कोऽपि एकः पिता । 'न उद्घहति' न परिणयति ।। ९२ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥१२१॥