________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
देवदूष्याण्यदूष्याणि, व्यूतानीन्दोः करैरिख । हरिचन्दनचर्चाश्च, मन्दारकुसुमस्रजः ॥ ८५ ॥ सङ्ख्यया च त्रयस्त्रिंश-दलङ्काराश्चतुर्विधान् । त्रायस्त्रिंशैभृशं प्रीतैस्त्रिदशैः प्रहितानिव ॥ ८६ ॥ स प्रियाय तनूजाय, सप्रियाय ददौ मुदा । सांयात्रिकः समानीत-हृयश्रीरिव हृद्यकम् ।। ८७ ॥
'सप्रियाय' सभार्याय । 'प्रियाय' इष्टाय । 'तनूजाय' पुत्रार्थम् । 'समानीतहृद्यश्री:' समानीता हृद्या सुन्दरा श्री लक्ष्मी: येन सः । 'सांयात्रिकः इव' पोतवणिगिव । 'स सुरः' गोभद्रदेव: । 'मुदा' प्रीत्या । 'हृद्यकं' मनोहरं दिव्यं वस्तु। 'ददौ' अर्पितवान् ॥ किं ददौ तद्दर्शयति- 'सर्वाङ्गीणाः' सर्वाङ्गसम्बन्धिनी: । "किरीटाद्याः' मुकुटाद्याः । 'दिव्यालङ्कारमण्डली:' दिव्यभूषणश्रेणी: । 'शालेः' शालिभद्रस्य 'भाग्यहेले:' भाग्यमेव हेलि: सूर्यः तस्य । किं 'तरुणाः' मध्याह्नसम्बन्धिनीः । 'किरणावली:' अंशुश्रेणी: ॥ 'इन्दोः' चन्द्रस्य । 'करैः' किरणैः । 'व्यूतानीव' ग्रथितानि इव । 'अदृष्याणि' निर्दोषाणि । 'देवदूष्याणि' देवसम्बन्धिवस्त्राणि । 'हरिचन्दनचर्चाः' गोशीर्षचन्दनलेपाः । 'मन्दारकुसुमस्रजः' कल्पवृक्षपुष्पमालाः । 'भृशं' अत्यन्तम् । 'प्रीतैः' तुष्टैः । 'त्रायस्त्रिंशः' इन्द्रगुरुस्थानीयैः त्रयस्त्रिंशद्-भेदैः । 'त्रिदशैः' देवैः । 'प्रहितानिव' प्रेषितानिव। च: समुच्चये । सङ्ख्यया च त्रयस्त्रिंशद् । 'चतुर्विधान्' हेमरजतादिभेदान् । 'अलङ्कारान्' भूषणानि । ददाविति सण्टङ्कः ॥ ८४ ॥ ८५ ॥ ८६ ॥ ८७ ॥
यावज्जीवति तन्माता, तावत्कोऽपि सुतार्थकृत् । दयितैव प्रिया तस्य, परमार्थान्न नन्दनः ॥ ८८ ॥
यावत् तन्माता-पुत्रजननी जीवति तावत् कोऽपि-कश्चिदेव पिता सुतार्थकृत्-पुत्रप्रयोजनकारी भवति यत: तस्यसामान्यपितुः 'दयितैव' पत्नी एव । 'परमार्थतः' वस्तुतः । 'प्रिया' इष्टा । 'न नन्दनः' न तु पुत्रः ॥ ८८ ॥
ARRARAUAYA8A82828282828282888
॥१२०॥