________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
828282828282828282828282828282828288
यदि 'प्राणप्रियं' प्राणेभ्योऽपि प्रियं पुत्रम् । 'दिव्यैः सुखैः' स्वर्गभोगैः । 'न आमन्त्रये' न सहभागिनं करोमि । तव 'कुक्षिम्भरे:' उदरम्भरेः स्वार्थिनः । मम कोऽयं 'सुपर्वतागर्वः ?' देवत्वाभिमान: ? ॥ ८० ॥
सुत्तचित्तस्य चित्रस्य, पटीवाऽतिपटीयसी । भद्रा सद्गुणरङ्गाढ्या, सदा सन्निहिताऽस्ति चेत् ॥ ८१ ॥ तथापि चिन्तादुःखाग्नेः, सन्ताप: सम्भवी पुनः । निजालोकसुधावृष्ट्या, तत्तं निर्वापये रयात् ॥ ८२ ॥ |
'सुतचित्तस्य' पुत्रचेतसः । 'चित्रस्य' आलेख्यस्य । 'पटी इव' पट्टिका इव । 'अतिपटीयसी' अतिचतुरा । 'सद्गुणरङ्गाढ्या' सद्गुणानां रङ्गः रागैः आढ्या पूर्णा । चित्रपटीपक्षे शोभनगुणपूर्णैः रङ्गैराढ्या । 'चेत्' यद्यपि । 'भद्रा' शालिमाता | 'सदा सन्निहिता' नित्यं समीपवर्तिनी । अस्ति ॥ ८१ ॥ तथापि 'चिन्तादुःखाग्नेः' चिन्तायाः दुःखं तदेव अग्निः तस्मात् । 'सन्तापः' मनस्तापः । 'सम्भवी' उत्पिसुः । 'तत्' तस्मात् । 'तं' सन्तापम् । 'निजालोकसुधावृष्ट्या' स्वदर्शनामृत-वर्षणेन । 'निर्वापये' शान्ति नयामि ॥ ८२ ॥
नवनवतिं पेटिकाः प्रेषयन् गोभद्रदेवः । विचार्येत्यवधीर्य स्वः श्रियं वन्ध्यामिव स्त्रियम् । युक्तं सन्तानश्रृङ्गारं, नन्दनं स ययौ सुरः ॥ ८३ ॥
'इति' उक्तप्रकारेण । 'युक्तं' समुचितम् । 'विचार्य' चिन्तयित्वा । 'वन्ध्यां' पुत्रौत्पत्तौ अयोग्याम् । 'स्त्रियमिव' नारीमिव । 'स्व:श्रियं' स्वर्गलक्ष्मीम् । 'अवधार्य' अवगणय्य । 'सन्तानश्रृङ्गारं' सन्तानेषु श्रृङ्गारस्वरूपम् । नन्दनवन-पक्षे सन्तानाः कल्पवृक्षाः तैः श्रृङ्गारो यत्र । 'नन्दनं' पुत्रम् । पक्षे नन्दनवनं प्रति । 'सः सुरः' गोभद्रदेवः । 'ययौ' गतः ॥ ८३ ॥
सर्वाङ्गीणाः किरीटाद्याः, दिव्यालङ्कारमण्डलीः । श्रीशालेर्भाग्यहेलेः किं, तरुणाः किरणावलीः ॥ ८४ ॥
828282828282828282828282828282828482
॥११९॥