________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'इह' संसारे। 'दोषज्ञस्याऽपि' दोषवेदिनोऽपि । सन्धानपक्षे वैद्यस्याऽपि । 'मुनेरपि' साधोरपि । 'आर्द्रकस्य' आर्द्रकनामा मुनिः तस्य । पक्षे श्रृङ्गबेरस्य । 'दुस्त्यज' दुःखेन त्यज्यते इत्येवंशीलम् । 'लावण्यरसस्नेह सन्धानं' लावण्यरसप्रेमसंयोगम् । पक्षे-लावण्यरस: लवणस्य रसः स्नेहः तैलं ताभ्यां सहितं सन्धानम् । 'अथाणु' इति भाषायाम् । 'सः सुतः' शालिभद्रः'। 'विदधे' कृतवान् । दुस्त्यजं नेह सन्धानं शालिभद्रेण विदधे येनाऽहं तं स्वर्गतोऽपि स्मरामीति भावः ।। ७७ ॥
गोत्रोद्धारवराहात्तु, महावँ मौक्तिकं किल । मया सुतनयाल्लेभेऽमुष्मादामुष्मिकं फलम् ॥ ७८ ॥
'गोत्रोद्धारवराहात्' गोत्रोद्वारे कुलोद्धारकरणे वराहात् वरं अहः दिनं वराहं यस्मात् । पक्षे-गोत्रा पृथ्वी, तस्याः उद्धारे वराहावतारात् विष्णोः । पुराणमतेषु दशावतारेषु तृतीयो वराहावतारः । अमुष्मात् 'सुतनयात्' सुपुत्रात् । पक्षेसुतः उत्पन्नः नयः न्यायः यस्मात् । 'महाऱ्या' महामूल्यम् । 'मौक्तिक' मुक्तिप्रदं मोक्षप्रदम । पक्षे मुक्ताफलम् । 'आमष्मिक' पारलौकिकम् । 'फलं' सद्गतिरूपम् । 'मया' गोभद्रेण । 'लेभे' प्राप्तम् । यदुक्तम्-स्वगर्भशुक्तिनिभिन्नं, सुवृत्तं सुतमौक्तिकम् । वंशश्रीतिलकीभूतं, मन्दभाग्यस्य दुर्लभम् ॥ १ ॥ ७८ ॥
मया च रणशूरेण, शरणं जिनमीयुषा । तदैककः सुतोऽमोचि, गृहद्वन्द्वस्य सङ्कटे ॥ ७९ ॥
'जिन' अर्हन्तं वीरम् । 'शरणं' आश्रयम् । 'ईयुषा' गच्छता । 'रणशूरेण' कर्मभिः सह युद्धवीरेण । 'मया' संयमेच्छुना। 'तदा' प्रव्रजनकाले । 'गृहद्वन्द्वस्य' गृहस्थाश्रम-चिन्तायाः । 'संङ्कटे' आपत्तौ । 'एककः' एकाकी । 'सुतः' पुत्रः । 'अमोचि' मुक्तः ॥ ७९ ॥
प्राणप्रियं सुखैर्दिव्यैः, पुत्रं नामन्त्रये यदि । कोऽयं सुपर्वतागर्वस्तदा कुक्षिम्भरेर्मम ॥ ८० ॥
828282828282828282828282828282828282
॥११८॥