________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
वृत्तैः आचारैः अक्षरा अविनश्वरा स्वायु:पर्यन्तस्थायिनी अभिरामा मनोहरा श्री: सम्पत्तिः यस्य सः । लेखपक्षे-वृत्तैः वर्तुलैः अक्षरैः वर्णैः अभिरामा मनोहरा श्री: शोभा यस्य सः । 'विशेषोल्लेखिएलेखः' विशेषेण उल्लेखनशील: उल्लेख: औत्सुक्यं यस्य सः । हल्लेखोत्कलिके इति हैम्याम् । पक्षे-विशेषेण उल्लेखी उल्लिखितः उल्लेख: हृदयोर्मि: यस्मिन् सः ॥ ७४ ॥
चित्रं गोभद्रगीर्वाणः, शाणोत्तीर्णविशुद्धधीः । पस्पर्श ज्ञानतः पुत्रं, पुण्याढ्यपरमावधिम् ॥ ७५ ॥
'गोभद्रगीर्वाणः' गोभद्रदेवः । पक्षे-बाणः । बवयोरभेदः । 'शाणोत्तीर्णविशुद्धधीः' निकषपरीक्षितशुद्धबुद्धिः । बाणपक्षे-शाणेन उत्तीर्णत्वात् विशुद्धा धी: कर्म यस्य सः । 'पुण्याढ्यपरमावधि' पुण्याढ्येषु पुण्यशालिषु परमावधिं परममर्यादाभूतं प्रकृष्टपुण्यशालिनमित्यर्थः । 'पुत्रं' शालिभद्रम् । 'ज्ञानतः' अवधिज्ञानेन । 'पस्पर्श' स्पृष्टवान् । 'चित्र' ज्ञानतः स्पृष्टवानिति आश्चर्यम् । लोहमयो बाणः शरीरं स्पृष्ट्वा विध्यति । अयं गोभद्रगीर्वाण: ज्ञानतः एव शालिभद्रं पस्पर्श इति आश्चर्यम् ॥ ७४॥
दध्यौ सोऽथ पितुः प्रायो, विन्ध्यस्येवाङ्गजा गजाः । बलादुन्मूलयन्त्येव, सुखसारद्रुमावलीम् ॥ ७६ ॥
अथ 'सः सुरः' गोभद्रदेवः । 'दध्यौ' चिन्तयामास । 'प्रायः' बहुधा । 'विन्ध्यस्येव' विन्ध्याचलस्य इव । 'पितुः' जनकस्य । 'अङ्गजाः' पुत्राः । 'गजाः' हस्तिनः । 'सुखसारद्रुमावली' सुख-सार एव द्रुमावली वृक्षश्रेणि: ताम् । 'बलात्' हठात् । 'उन्मूलयन्ति एव' मर्दयन्ति एव । यथा विन्ध्यगिरिजाताः गजाः विन्ध्यपर्वतस्थितामेव वृक्षावली उन्मूलयन्ति तथा केचन पुत्राः पितुः सम्पत्तिमेव नाशयन्ति-इति गोभद्रदेवचिन्तनम् ॥ ७६ ॥
मुनेरप्याकस्येह, दोषज्ञस्यापि दुस्त्यजम् । स लावण्यरसस्नेह-सन्धानं विदधे सुतः ॥ ७७ ॥
ARRARAUAYA8A82828282828282888
॥११७॥