________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'पञ्चकुलं' कथ्यते, (भाषायां 'पञ्चायत') तस्य ग्रहे वशे । 'अप्राप्तः' अवञ्चित: चतुरत्वात् । 'चौरेरिव' स्तेनैरिव । 'परीषहैः' क्षुदादिपरीषहैः । 'अगञ्जितः' अपराजितः। 'मषीभेदं' चौर्यं असत्यम् । पक्षे-दानचौर्यं असत्यवचनं असत्यलेखनम् । मषीभेदेन कूटलेखम् । दानादिचौर्यमसत्यं च मषीभेदस्तम् । अकुर्वाणः ।। ७० । ७१ ॥
मन्त्रस्येवोत्तरां सेवां, विधायानशनक्रियाम् । स्ववर्गे सपदि सौधर्मेऽसौ धर्मेण सुरोऽजनि ॥ ७२ ॥
'मन्त्रस्य' मन्त्रजापस्य । 'उत्तरां' पाश्चात्याम् । 'सेवामिव' उपासनामिव । अनशनक्रियाम् । 'विधाय' कृत्वा । 'असौ' सार्थवाहमुनिः । 'धर्मेण' चारित्रधर्मेण । 'सौधर्मे स्वर्गे' प्रथमे वैमानिकदेवलोके । 'सुरः' देवः । 'अजनि' जातः । यदुक्तम्-'जेण कयं सामन्नं छम्मासे झाणसंजमरएण । तं मुनिमुदारकित्तिं गोभद्दरिसिं नमस्सामि' ॥ ७२ ॥
सचिन्तमग्रजं दानं, वीक्ष्य शालेः सुखार्पणे । तपसा तत्पिता प्रेषि, किल देवर्द्धिहूतये ॥ ७३ ॥
'शालेः' शालिभद्रस्य । 'सुखार्पणे' सुखसमर्पणे । 'अग्रजं' अग्रजभ्रातरम् । 'दानं' दानधर्मम् । 'सचिन्तं' चिन्ताप्रपन्नम् । 'वीक्ष्य' दृष्ट्वा । 'तपसा' तपश्चर्यया । 'तपसा' इति कर्तृभूतं पदम् । 'तत्पिता' गोभद्रः । 'किलः' निश्चये । 'देवर्द्धिहूतये' सुरसमृद्धेः आह्वानाय । 'प्रैषि' प्रहित: । दानादिचतुर्भ्रातृषु 'शालिभद्राय' कि देयम् ? इति चिन्तामग्नं दानभ्रातरं विलोक्य अनुजेन तपसा भ्रात्रा किल गोभद्रः देवर्द्धिप्रेषणाय स्वर्गे प्रहितः इति भावः ॥ ७३ ।।
वृत्ताक्षराभिरामश्री, रेजे स्व:श्रीनिमन्त्रणे । विशेषोल्लेखिहल्लेखः, स लेखः किल लेखवत् ॥ ७४ ॥
'स्व:श्रीनिमन्त्रणे' स्वर्गलक्ष्मीनिमन्त्रणे । 'सः' गोभद्रः । 'लेखः' देवः । 'दैवतनाकिलेखाः' इति हैम्याम् । किल: निश्चये । 'लेखवत्' आमंत्रण-पत्रस्य लेखवत् । 'रेजे' राजते स्म । कथम्भूतः सः देवः (लेख:)? 'वृत्ताक्षराभिरामश्रीः'
satasa8RSR88RSONASRSASASASRSANASNA
॥११६॥