________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
उग्रग्रासैषणा दोषहिण्डिपञ्चकुलग्रहे । अप्राप्तोऽथागञ्जितश्च, चौरवि परीषहै: ॥ ७० ॥ मषीभेदमकुर्वाणः, सार्थवाहमहामुनिः । प्रभूतं सारभूतं स, पुण्यद्रव्यमुपार्जयत् ॥ ७१ ॥
'सार्थवाहमहामुनिः' सार्थवाहसमान: गोभद्रमुनिपुङ्गवः । सारभूतम् । 'प्रभूतं' पुष्कलम् । 'पुण्यद्रव्यं' सुकृतधनम् । सार्थवाह पक्षे-पवित्रधनम्, न्यायेनोपार्जितत्वात् । 'उपार्जयत्' लब्धवान् । कथम्भूतः सः सार्थवाहमहामुनिः ? 'व्याज विना' कपटं विना । सार्थवाहपक्षे-कलान्तरं विना । 'मूलद्रव्यं' मूलधनम् । 'पञ्चमहाव्रतीं' पञ्चमहाव्रतरूपम् । 'प्राप्य' लब्ध्वा । 'अक्षोपाङ्गस्य' इन्द्रियोपाङ्गस्य । पक्षे रथचक्रमध्यभागरूपस्य उपाङ्गस्य । 'मात्रया' मात्रानुसारेण 'शकटं' शकटरूपं । पक्षे-शकटम् । 'देहं' शरीरम् । 'यापयन्' निर्वाहयन् ॥ ६६ ॥ 'आयव्ययविवेचकः' लाभालाभविवेकी । 'नवनवान्' नवान् नवान् । 'देशान्' विषयान् 'नयन्' परिभ्रमन् । निश्चयव्यवहाराख्यवृषपोषविशेषवित् निश्चयव्यवहाराख्यौ यो वृषौ वृषभौ तयोः पोषे विशेषवित् विशिष्टविज्ञः ॥ ६७ ॥ ‘पञ्चकुलं' पञ्च कुलानि यत्र । 'इन्द्रियग्राम' इन्द्रियसमूहम् । पक्षे-ग्रामम् । 'बोधयित्वा' प्रतिबोध्य । पक्षे-मानयित्वा । अथ 'कषायप्रतिसारकान्' कषायमन्त्रभेदकान् । "सुप्तानेव' निद्राणानेव । 'विमुच्य' त्यक्त्वा ॥ ६८ ॥ 'पथिकसन्निभान्' प्रवासितुल्यान् । 'द्विचत्वारिंशतं भिक्षादोषान्' उत्पादादीन् गोचरीदोषान् । पक्षे-भिक्षया-याचनया लघुतादीन् दोषान् । 'त्याजं त्याज' त्यक्त्वा त्यक्त्वा । 'देशकालविभागतः' क्षेत्रसमयानुसारेण । 'चर्या' कियाम् । पक्षे-व्यापार-प्रवृत्तिम् । 'चरन्' कुर्वन् ॥ ६९ ॥ "उग्रग्रासैषणादोषहिण्डिपञ्चकुलग्रहे' उग्राः तीव्रा: ग्रासैषणादोषा: भोजनसमयजन्याः पञ्च अङ्गारादिदोषाः तेषु, हिण्डिषु विहारेषु, पञ्चकुलानां इन्द्रियाणां ग्रहे ग्रहणे वशे । 'अप्राप्तः' अगृहीतः अमूढत्वात् । पक्षे-उग्रा या ग्रासैषणा ग्रासस्य भोजनकवलस्य एषणा याचना तस्याः दोषे, 'हिण्डिषु' भाषायां 'हुंडी' तासु, 'पञ्चकुलस्य' ग्राममध्ये निर्णायकाः पञ्चजनाः
satasa8RSR88RSONASRSASASASRSANASNA
॥११५ ॥