________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालिभद्रम् । 'आलिङ्ग्य' परिरभ्य । 'अमन्दानन्दनीरः' भूरिहर्षाश्रुजलैः । 'निजे पदे' स्वस्थाने । 'अभ्यषिञ्चदिव' सिषेच इव ॥ ६३ ॥
गोभद्रस्य दीक्षा स्वर्गगमनं चअष्टाह्निकामथाहाय, विधाय जिनवेश्मसु । पात्रदानैर्दयादान-राराधितविधिक्रमः ॥ ६४ ॥ कृतनिष्क्रमणोत्साहः, सार्थवाहः स्वसूनुना । श्रीवीरप्रभुहस्तेन, व्रतमादत्त सत्तमः ॥ ६५ ॥
अथ 'अह्राय' क्षिप्रम । 'जिनवेश्मस' जिनमन्दिरेष । 'अष्टाह्निका' अष्टाह्निकमहोत्सवम् । 'विधाय' कृत्वा । 'पात्रदानैः' सुपात्रदानैः । दयादानः अनुकम्पादानैः । 'आराधितविधिक्रमः' आराधितः विधिकम: विधिपरम्परा येन सः ॥ ६४ ॥ 'स्वसूनुना' शालिभद्रेण । 'कृतनिष्क्रमणोत्साहः कृतः निष्क्रमणोत्साहः संयम-महोत्सवः यस्य सः । 'सत्तमः' सतां सत्सु वा उत्तमः सज्जनशिरोमणिः इत्यर्थः । 'सार्थवाहः' गोभद्रः । 'श्रीवीरप्रभुहस्तेन' श्रीमहावीरस्वामिकरण । 'व्रतं' दीक्षाम् । 'आदत्त' जग्राह ॥ ६५ ॥
प्राप्य व्याजं विना मूलद्रव्यं पञ्चमहाव्रतीम् । यापयन् शकटं देहमक्षोपाङ्गस्य मात्रया ॥ ६६ ॥ नयन् नवनवान् देशानायव्ययविवेचकः । निश्चय-व्यवहाराख्यवृषपोषविशेषवित् ॥ ६७ ॥ बोधयित्वेन्द्रियग्राम, युक्त्या पञ्चकुलं किल । सुप्तानेव विमुच्याऽथ, कषायप्रतिसारकान् ॥ ६८ ॥ द्विचत्वारिंशतं भिक्षादोषान् पथिकसन्निभान् । त्याजं त्याजं चरंश्चर्यां, देशकालविभागतः ॥ ६९ ॥
82828282828282828282828282828282888
॥११४॥