________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सूनवेऽसूनवेक्षेत, तृणवज्जनकः परः । तदीय-विरहे पृथ्वी-नाथो दशरथो यथा ॥ ९३ ॥
'परः' अन्यः । 'जनकः' पिता । 'सूनवे' पुत्रहेतोः । तृणवत्। 'असून्' स्वप्राणान् । 'अवेक्षेत' वीक्षेत त्यजेदित्यर्थः । यथा 'तदीय-विरहे' राम-वियोगे । 'पृथ्वीनाथः' राजा । दशरथः प्राणान् तत्याजः । इदं लौकिकमतमपेक्ष्योक्तं प्रतिभाति । अन्यथा रामवनवाससमये दशरथेन दीक्षा गृहीता, न प्राणा: त्यक्ताः ॥ ९३ ।।
श्रीराम सुगुणारामं, देवभूयमितस्तु सः । विधुरेऽपि न सस्मार, स्मरापस्मारघस्मरः ॥ ९४ ॥
'देवभूयं' देवत्वम् । 'इत:' प्राप्त: । 'स्मरापस्मारघस्मरः' स्मरस्य-कामस्य अपस्मार:-धातुवैषम्यजः आवेशः तेन घस्मर: भक्षक: भोगीत्यर्थः । 'स:' दशरथजीवः । 'सुगुणाराम' सुगणोद्यानम् । श्रीरामम् । 'विधुरेऽपि' सीताविरहाद् व्याकुलेऽपि तस्मिन् रामे । 'न सस्मार' न स्मृतवान् ॥ ९४ ॥
कश्चिद् घुणाक्षरन्यायात् सुतं स्मरति कर्हिचित् । तद् याचते समृद्धोऽपि, बुभुक्षा-वप्र-विप्रवत् ॥ १५ ॥
'घुणाक्षरन्यायात्' अनाभोगात् काष्ठकीटकृताक्षरवत् । 'कर्हिचित्' कदाचित् । 'कश्चित्' पिता । 'सुतं' पुत्रम् । स्मरति । तत् समृद्धोऽपि-धनादिना पूर्णोऽपि । 'सः' पिता । 'याचते' पुत्रात् याचनां करोति । कः इव ? 'बुभुक्षावप्रविप्रवत्' बुभुक्षायाः वप्रः क्षेत्रं स्थानं विप्रः ब्राह्मणः तद्वत् । अथ कदाचित् कोऽपि जनक : पत्रं स्मरति, तदपि बुभुक्षितब्राह्मणयाचनातुल्यमेवावसेयमित्यर्थः ॥ ९५ ॥
देवोऽस्य सविता शस्यश्रीहेतुः कान्तिमान् पुनः । चिन्तासन्तापहन्ताऽभूत् मनोवाञ्छितवृष्टिभिः ॥ ९६ ॥
ARRARAUAYA8A82828282828282888
॥१२२॥