________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
पक्षे-ब्रह्मणः विधातुः । 'ते' तव । 'सरस्वती' वाणी । पक्षे भारती नदी वा 'मे' मम । 'सातार्णवे' सुखसागरे । 'चिन्तासंवर्तकं' चिन्तावडवानलम् । 'निधित्सुः' पातनेच्छावती । सर्वं जगद् भक्षयिष्यामि इति भाषमाणः वडवानलः ब्रह्मादेशात् सरस्वत्या समुद्रे क्षिप्तः इति पौराणिकाः ॥ ५३ ॥
स्वसामर्थ्यादलं मातः ! तातः शैलेशतोलने । मयि क्षिपति पोते तु कुलाचलभरं कथम् ॥ ५४ ॥ 'मात:' हे जननि ! । 'स्वसामर्थ्यात्' निजशक्त्या 'शैलेशतोलने' मेरूत्पाटने। 'अलं' समर्थः । ' तातः ' पिता गोभद्रः । मयि पोते' बाले। पक्षे प्रवहणे । 'कुलाचलभर' कुलस्य अचलं भारम् । पक्षे- 'कुलाचल:' इतिनामा पर्वतः तस्य भारम् । कथं क्षिपति ? ॥ ५४ ॥
पित्रोर्यत्र न शुश्रुषा सदोदरपिशाचता । धर्मनाशं गृहावासं, पशुधर्ममुशन्ति तम् ॥ ५५ ॥
'यत्र' गृहावासे । 'पित्रो:' जननीजनकयो । 'न शुश्रूषा' न सेवा राक्षसवृत्ति: । 'तं गृहावासं' संसारवासम् । 'धर्मनाशं' धर्मस्य नाशः यत्र । यत्र । 'उशन्ति' वदन्ति ॥ ५५ ॥
'सदा' नित्यम् । 'उदरपिशाचता' उदरभरणे 'पशुधर्मं ' पशूनामेव धर्मः आहारमैथुनादिकः
संसारजालमाच्छिद्य, स्वयं रोहितमत्स्यवत् । पितः ! प्रयासि हित्वाऽस्मान् कान्दिशीकानिहैव किम् ।। ५६ ।। 'पित:' हे तात! स्वयं 'रोहितमत्स्यवत्' मत्स्यराजमत्स्यवत् । 'संसारजालं' भवबन्धनम् । रोहितमत्स्यपक्षेमत्स्यग्रहणजालम् । 'आच्छिद्य' भित्वा । अस्मान् 'कान्दिशीकान्' भयद्रुतान् । 'इहैव' संसारे एव । ' हित्वा त्यक्त्वा । 'किं' कथम् । 'प्रयास' गच्छसि ॥ ५६ ॥
328
तृतीय:
प्रक्रमः
॥ १११ ॥