________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
'त्वदधिष्ठिततन्त्रस्य' त्वदधिष्ठितपरिवारकृत्यस्य । 'परिच्छदः परिबर्हस्तन्त्रोपकरणे अपि ।' इति हैम्याम् । नृपपक्षेत्वदधिष्ठितस्वराष्ट्रचिन्तस्य । 'तन्वं स्वराष्ट्रचिन्ता स्यात्' इति हैम्याम् । 'आवापविधायिनः' रागद्वेषादिशत्रून् प्रति चिन्तनकारिणः। पक्षे-अरिचिन्तनकारिणः । 'आवापस्त्वरिचिन्तनम्' इति हैम्याम् । 'अभ्यस्तसमितेः' अभ्यस्ता समितयः (गुप्तयः) येन तस्य । पक्षे-अभ्यस्तयुद्धस्य । 'राटि समितिसङ्गरौ' इति हैम्याम् । 'मम' गोभद्रस्य । 'भावारि-विजिगीषुता' आन्तर-शत्रु-विजयेच्छा । 'स्वापा' सुखेन आप्यते स्वापा-सुलभा भविष्यति ॥ ५० ॥
तदादत्स्व कुलाभारं, मम धीरधुरन्धर ! । त्वन्मात्रा ज्ञास्यते मात्रा, माऽत्राऽऽयासीत्तव श्रमः ॥ ५१ ॥
'तद्' तस्मात् । 'धीरधुरन्धर' हे धीरपुरुषेषु धुरन्धर अग्रेसर ! । मम 'कुलाभारं' कुटुम्बभारम् । 'आदत्स्व' गृहाण। 'अत्र तव श्रमः मा आयासीत्' मा आगच्छतु इति 'त्वन्मात्रा' तव जनन्या, 'मात्रा' लेशः, ज्ञास्यते । मम । अनुपस्थितौ अपि अयं शालिभद्रः कुटुम्बभारोद्वहने समर्थोऽस्तीति भद्रा ज्ञास्यति इति गोभद्रकथनभावः ॥ ५१ ॥
अस्याः कुटुम्बकं चिन्ता-नदी मबुद्धिबेडया । उत्तीर्णमिति याचेऽह-मातरं तव मातरम् ॥ ५२ ॥
'अस्याः' भद्रायाः । कुटुम्बकम् । 'मबुद्धिबेडया' मम मतिनावा । 'चिन्तानदी' निर्वाह-विवाहादिचिन्तासरितम्। 'उतीर्ण' पारगतम् । इति अहं तव 'मातरं' भद्राम् । 'आतरं' नौभाटकं दीक्षानुमतिरुपमवक्रयम् । 'स्यात्तरपण्यमातरः' इति हैम्याम् । 'याचे' प्रार्थये ॥ ५२ ॥
शालिरालपत् ज्ञात-ब्रह्मणस्ते सरस्वती । सातार्णवे निधित्सुर्मे, चिन्तासंवर्तकं पितः ! ॥ ५३ ॥ 'शालिः' शालिभद्रः । 'आलपत्' उवाच । 'पितः' हे जनक ! | 'ज्ञातब्रह्मणः' विदितात्मन: ज्ञातत्त्वस्य ।
satasa8RSR88RSONASRSASASASRSANASNA
॥११०॥