________________
श्री शालिभद्र
महाकाव्यम्
अनुत्सेकः अभिमान रहितः तत्सम्बोधने । 'अनुत्सुकमहोत्साह' अनुत्सुकोऽपि महान् उत्साहः उल्लासः यस्य तत्सम्बोधने । 'हे वत्सल वत्स' हे वात्सल्यपूर्ण पुत्र ! । मम वचः वचनम् । 'विचारय' विचिन्तय ॥ ४६ ॥
सुधोज्ज्वलस्त्वया प्रांशुः प्रासाद इव मेऽन्वयः । कल्याणकलशेनालञ्चक्रेऽभ्युदयशालिना ॥ ४७ ॥ 'कल्याणकलशेन इव' मङ्गलकुम्भेन इव, प्रासादपक्षे- सुवर्णकलशेन । 'अभ्युदयशालिना' उत्तरोत्तरवर्धमानवैभवेन शालते शोभते इत्येवंशीलेन । त्वया । 'सुधोज्ज्वलः' अमृतशुभ्रः । 'प्रांशुः ' उच्चः । प्रासाद इव । 'मे अन्वयः ' मम कुलम्। 'अलञ्चक्रे' भूषितम् । यदुक्तम्
"प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः । त्रैलोक्यदीपको धर्मः सुपुत्रः कुलदीपकः ॥ " ॥ ४७ ॥ त्रैलोक्यसुन्दरं नाम्ना, प्रासादं नृभवं निजम् । बाल्य - यौवन - वार्धक्य - त्रिभूमं श्रीनिबन्धनम् ॥ ४८ ॥ दान-शील तपोभाव-चतुःशालेन शालितम् । संयमस्वर्णकुम्भेन, साहाय्यात् तव योजये ॥ ४९ ॥ ( युग्मम्)
' त्रैलोक्यसुन्दरं' इति नाम्ना अभिधानेन । 'बाल्ययौवनवार्धक्यत्रिभूमं' बाल्ययौवनवार्धक्यानि तिस्रः भूमयः यस्य तत् । 'श्रीनिबन्धनं' चारित्र श्रीकारणम् । प्रासादपक्षे - सम्पत्तिहेतु । 'दानशीलतपोभावचतुःशालेन' दानशीलतपोभावाः एव चतुःशालानि चतस्रः शाला: अपवरका: यस्मिन् तेन । 'शालितं' शोभितम् । 'निजं' आत्मीयम् । 'नृभवं' नरभवरूपम् । 'प्रासादं' सौधम् । तव साहाय्यात् । 'संयमस्वर्णकुम्भेन' चारित्रकनक- कलशेन । 'योजये' प्रासादोपरि संयम स्वर्णकुम्भं स्थापयामीत्यर्थः ॥ ४८ ॥ ४९ ॥
त्वदधिष्ठिततन्त्रस्य, ममावापविधायिनः । अभ्यस्तसमितेः स्वापा, भावारिविजिगीषुता ॥ ५० ॥
sa
तृतीय:
प्रक्रमः
॥ १०९ ॥