________________
श्री
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स्नपयित्वा पदाम्भोजे, पित्रो: सिंहासनस्थयोः । स ननाम महान्तो हि, जातु मुञ्चन्ति नौचितीम् ॥ ४४ ॥
'प्राज्यैः' प्रभूतैः । पक्षे-प्रकृष्टमाज्यं घृतं तैः । ‘दन्तांशुभिः' दन्तकिरणैः । 'दुग्धैः' पयोभिः । 'मधुभिः' मधुरैः । पक्षेः-मधुभिः । 'गोरसैः'-वचनरसैः । पक्षे-दधिभिः, । 'गन्धोदकैश्च' सुरभिजलैश्च । 'चञ्चत्पञ्चामृतैः' एतत्स्वरूपैः पञ्चामृतैः । घृत-दुग्ध-मधु-दधि-जलानि पञ्चामृतं कथ्यते । अत्र दुग्धस्थाने दन्तकिरणाः, मधुस्थाने मधुरवचनानि, विनयस्थाने गन्धोदकं इत्यादीनि द्रष्टव्यानि ॥ ४३ ॥ 'सिंहासनस्थयोः' सिंहासनस्थितयोः । 'पित्रोः' जननी-जनकयोः । 'पदाम्भोजे' चरण-कमले । 'स्नपयित्वा' उपर्युक्तैः पञ्चामृतैः । 'सः' शालिभद्रः । 'ननाम' नमति स्म । 'महान्तः' महापुरुषाः । 'हिः' निश्चये । 'जातु' कदाचित् । 'औचितीं' औचित्यम् । 'न मुञ्चन्ति' न परिहरन्ति ॥ ४४ ॥
भोगीन्द्रं विबुधेन्द्रं च, नृचक्रे चक्रिणं पिता । प्राह त्रिभुवनीसारं, सुतमुत्सङ्गसङ्गिनम् ॥ ४५ ॥
'भोगीन्द्र' भोगिलोकेषु नागलोकेषु मुख्यम् । 'विबुधेन्द्रं' विबुधेषु देवेषु मुख्यम् । 'नृचक्रे' नरसमूहे च । 'चक्रिणं' चक्रवर्तितुल्यम् । 'त्रिभुवनीसारं' अधोलोके भोगीन्द्रः, ऊर्ध्वलोके विबुधेन्द्रः, मर्त्यलोके च चक्री मुख्यः अयं शालिभद्रस्तु सर्वेषु मुख्यः इति त्रिभुवनीसारः तम् । त्रिजगतीसारमित्यपि पाठः । 'उत्सङ्गसङ्गिनं' अङ्कोपविष्टम् । 'सुतं' पुत्रम् । 'पिता' गोभद्रः । 'प्राह' उवाच ॥ ४५ ॥
रुपश्रीवत्स ! हे वत्स ! च्छेकानुत्सेक ! वत्सल ! अनुत्सुकमहोत्साह !, विचारय वचो मम ॥ ४६॥ 'रुपश्रीवत्स' रुपेण श्रीवत्स विष्णुतुल्य ! श्रीवत्सो देवकीसूनुः इति हैम्याम् । 'छेकानुत्सेक' छेक: विद्वानपि
828282828282828282828282828282828282
॥१०८॥