________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
SASAKAsa 8282828282828282828282828282
स्निग्धेन मोदकेनाढ्य-रसेन प्रौढिशालिना । वचसा रुद्धकण्ठेव, योषा जोषमियेष सा ॥ ४० ॥
'स्निग्धेन' प्रेमपूर्णेन । मोदकपक्षे-घृतस्निग्धेन 'आढ्यरसेन' आढ्याः शान्तादिरसा यस्मिन् तेन । पक्षे-शर्करादिरसाढ्येन । 'प्रौढिशालिना' उत्साहसामर्थ्यसहितेन । पक्षे-महत्त्व (बृहत्त्व) युतेन । 'मोदकेन' आह्लादकेन । पक्षे लड्डकेन । 'वचसा' वचनेन । 'रुद्धकण्ठा इव' रुद्धः कण्ठः यस्याः सा तद्वत् । सा भद्रा योषा-स्त्री। 'जोषं' मौनम् । 'इयेष' प्राप्ता । प्रमाणातिशायिमोदककवलरुद्धकण्ठः पुरुषः यथा वक्तुं न शक्नोति तथा भद्राऽपि वक्तुमशक्ता जातेत्यर्थः ।। ४० ।।
प्रेरिता सार्थवाहेन, पवनेनेव सा भृशम् । साश्रुधाराऽभ्रलेखेव, सुतसौधाद्रिमाद्रवत् ॥ ४१ ॥
'पवनेन इव' वायुना इव । 'सार्थवाहेन' गोभद्रेण । 'भृशं' अत्यन्तम् । 'प्रेरिता' नोदिता । 'साश्रुधारा' अश्रुधारासहिता। मेघश्रेणिपक्षे-जलधारायुता । 'सा' भद्रा । 'अभ्रलेखा इव' मेघश्रेणिः इव । 'सुतसौधादि' पुत्रप्रासादपर्वतं गत्वा । 'आद्रवत्' द्रुतवती रुदितेत्यर्थः । अभ्रपक्षे-ववर्ष । यथा पवनप्रेरितपर्जन्यः पर्वते वर्षति तथा भद्राऽपि शालिभद्रसौधं गत्वा साश्रुधारा रुरोद ॥ ४१ ॥
क्षीरोदसङ्गतां गङ्गा-मिवालोक्य स मातरम् । पित्रा समं समायान्ती-मभ्युत्तस्थौ स्थिति विदन् ॥ ४२ ॥
'क्षीरोदसङ्गता' क्षीरोदधिसहिताम् । 'गङ्गामिव' जाह्नवीमिव । 'पित्रा' जनकेन । 'समं' सार्धम् । 'समायान्ती' समागच्छन्तीम् । 'मातरं जननीम् । 'अवलोक्य' दृष्ट्वा । 'स्थिति' मर्यादाम् । 'विदन्' जानन् । 'सः' शालिभद्रः । 'अभ्युत्तस्थौ' अभ्युत्थानं कृतवान् । पित्रोः दृष्टयोः अभ्युत्तिष्ठति हि सुविनीतः सुतः ॥ ४२ ॥
प्राज्यैर्दन्तांशुभिर्दुग्धै-र्गोरसै मधुभिस्ततः । गन्धोदकैश्च विनयै-श्चञ्चत्पञ्चामृतैरिव ॥ ४३ ॥
828282828282828282828282828282828482
॥१०७॥