________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
एकेनाऽपि सुपुत्रेण, सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रै, भारं वहति गर्दभी ॥ ३६ ॥ या स्वामिनमतिक्रम्य, दिगन्तमपि गच्छति । कालरूपा च सा देहच्छाया नैति सतीतुलाम् ॥ ३७ ॥
'या' स्त्री । 'स्वामिन' पतिम् । 'अतिक्रम्य' उल्लङ्घ्य । “दिगन्तमपि' कीर्ति-प्रतिष्ठादिद्वारा । गच्छति । 'सा' पत्नी। 'कालरूपा' श्यामवर्णा मृत्युरूपा वा । छायापक्षे-कृष्णवर्णा । 'देहच्छाया' शरीरच्छाया । 'सतीतुला' सतीसमानताम्। 'न एति' न प्राप्नोति । प्रगे सायं च देहच्छाया मूलपुरुषादपि महती सती दिगन्तरं गच्छति, सा देहच्छाया कथं सतीतुल्या स्यात् ! नहि सती स्त्री कदाचिदपि स्वामिनं अतिक्रम्य किञ्चिदपि करोति । ततः यत् लोकै: 'यत्र पतिः तत्र छायावत् सती' इति प्रोच्यते तन्न पूर्णसत्यमिति गोभद्र-कथनभावः ॥ ३७ ॥
त्वं तु च्छायाद्रुमच्छाया, मानौन्नत्यनिदर्शनम् । राजमित्राऽभियोगेऽपि, नातिक्रामसि मां पतिम् ॥ ३८ ॥
त्वं 'तु' परन्तु हे भद्रे त्वम् । 'छायाद्रुमच्छाया' यस्मिन् सदैव छाया भवति स: 'छायाद्रुमः' कथ्यते, तस्य छायातुल्या। 'मानौन्नत्यनिदर्शनं' गौरवोन्नतिदृष्टान्तभूता । छायाद्रुमपक्षे-प्रमाणोच्चतादृष्टान्तरूपा । 'राजमित्राऽभियोगेऽपि' नृपमित्रबलात्कारेऽपि। पक्षे-चन्द्रसूर्याक्रमणेऽपि । 'राजा निशा रत्नकरौ च चन्द्रः' 'मित्रो ध्वान्तारातिः' इति च हैम्याम् । 'पति' मां स्वामिनम्। 'न अतिक्रामसि' न उल्लङ्घसि ॥ ३८ ॥
मदङ्जगुणग्रामोपबृंहणपरायणा । तिष्ठ प्रतिष्ठिता पश्चात्, कीर्तिर्मूर्तेव निर्मला ॥ ३९ ॥
'मदङ्गजगुणग्रामोपबृंहणपरायणा' मत्पुत्रशालिभद्रगुणसमूहप्रशंसापरा । 'पश्चात् तदनु । 'प्रतिष्ठिता' स्थिता । 'मतिः' देहधारिणी । 'निर्मला' मलरहिता । कीर्तिः इव त्वं तिष्ठ मद्गृहे वस ॥ ३९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥१०६॥