SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् FRERERE अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसञ्चयः ॥ 'सुलक्षणे' हे सुलक्षणयुते !। 'तेषु' धर्ममरणादिषु । 'स्वयं' आत्मनैव । 'बलाबलं' धर्मे बलं मृत्यौ अबलम् । 'विचारय' चिन्तय ॥ ३३ ॥ सिंहार्कनृपदेवेषु, 'बाल' इत्यवहीलना । गूढप्रौढप्रतापेषु, विदुषां नहि युज्यते ॥ ३४ ॥ 'गूढप्रौढप्रतापेषु' गूढः गुप्तः प्रौढः प्रतापः येषां तेषु । गूढप्रौढप्रभावेषु इत्यपि पाठान्तरम् । 'सिंहार्कनृपदेवेषु' सिंहसूर्यभूपसुरेषु । 'बालः' इति कथनात् 'अवहीलना' कर्तुं विदुषां बुधानां न हि युज्यते । आशैशवाद्धि सिंहार्कनृपदेवाः सविक्रमाः भवन्ति, न ते बालाः अयं शालिभद्रोऽपि तत्सम एव ॥ ३४ ॥ दिव्यवाण्येकनिर्देशा, सिंही चैकसुता यथा । एकाक्षरा महाविद्या, रुद्राक्षैकमुखी शुभा ॥ ३५ ॥ तथा त्वमेकपुत्राऽपि, प्रभावाद्भुतवैभवा । संसार कार्यवद्धर्म-कार्येष्वपि समृद्धिदा ॥ ३६ ॥ ( युग्मम् ) यथा 'एकनिर्देशा' एकः एव निर्देशः आदेश: यस्याः सा । 'दिव्यवाणी' देववाणी शुभा । 'एकसुता' एक: एव सुतः पुत्रः यस्याः सा । 'सिंही' सिंहवधूः शुभा । चः समुच्चये । 'एकाक्षरा' एकमेव अक्षरं यस्यां सा । 'महाविद्या' शुभा । 'एकमुखी' एकमेव मुखं यस्यां सा । रुद्राक्षा शुभा भवति ॥ ३५ ॥ तथा 'एकपुत्रा' एक: शालिभद्रः एव पुत्रः यस्याः सा एकपुत्रापि त्वम् । 'प्रभावाद्भुतवैभवा' प्रभावात् सुतप्रतापात् अद्भुतः वैभवः यस्याः सा । संसारकार्यवत् धर्मकार्येषु अपि समृद्धिदा असि । यदुक्तम् TRERERY तृतीयः प्रक्रमः ॥ १०५ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy