________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तत:' तत्पश्चात् । 'सार्थवाहः' गोभद्रः । 'प्राह' उवाच । 'प्रवीणे' हे कुशले । किं विधुरा व्याकुला असि ? 'जिनतत्त्वविशारदे' हे अर्हत्तत्त्वविज्ञे ! । 'त्वं बालशारदेव' बालसरस्वतीव असि ॥ ३१ ॥
अन्तरङ्गं बलं पुण्यं, भावानामुद्भवान्तयोः । बहिरङ्गाः कुरङ्गाक्षि ! पुरुषोपक्रमक्रमाः ॥ ३२ ॥
'भावानां' धनादिपदार्थानाम् । 'उद्भवान्तयोः' उत्पत्तिविनाशयोः । 'अन्तरङ्गं' आन्तरम् । 'बलं' शक्ति: । 'पुण्यं' सुकृतमस्ति । 'करंगाक्षि' हे मृगनयने ! 'पुरुषोपक्रमक्रमाः' पुरुषप्रयत्नपरम्पराः । 'बहिरङ्गाः' बाह्याः शक्तयः सन्ति । धनधान्यादिप्राप्तौ पुण्यमेव मुख्य कारणम् । पुरुषप्रयत्नास्तु गौणकारणमिति भावः । यदुक्तम्
हे लक्ष्मि ! क्षणिके स्वभावचपले मूढे च पापेऽधमे, न त्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणी । ये देवार्चनसत्यशौचनिरता, ये चापि धर्म रताः, तेभ्यो लज्जसि निर्दये ! गतमतिर्नीचो जनो वल्लभः ॥ १ ॥
लक्ष्मीप्रत्युत्तरम्
नाऽहं दुश्चरिणी न चापि चपला मूों न मे रोचते, नो शूरो न च पण्डितो न च शठो हीनाक्षरो नैव च । पूर्वस्मिन् कृतपुण्ययोगविभवो, भुङ्क्ते स मे सत्फलं, लोकानां किमसह्यता सखि ! पुनर्दृष्टवा परां सम्पदम् ॥ ३२ ॥
धर्मो निरवकाशोऽयं, सावकाशः सदान्तकः । बलाबलं स्वयं तेषु, विचारय सुलक्षणे ! ॥ ३३ ॥
'अयं धर्मः निरवकाशः कदाचित् साध्यत्वात् । मानवजीवनं प्राय: क्रीडा-निद्रा-विषयासेवन-धनार्जनादि कार्येषु एव गच्छति, तेषु धर्मस्य कुत्र अवकाश:? अत: धर्म: 'निरवकाशः' कथ्यते । 'अन्तकः' यम: मृत्युः । 'सदा' नित्यम्। 'सावकाशः' कदाचिदपि तस्य शक्यत्वात् । गर्भस्थ-बाल-युव-वृद्धाद्यवस्थासु शक्य एव मृत्युः कदाचिदपि । यदुक्तम्
828282828282828282828282828282828282
॥१०४॥