________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
साध्यसिद्धयै पिताऽवादीद्, वादीवोत्तरमुत्तरम् । वितण्डाताण्डवं त्यक्त्वा, प्रामाणिकशिरोमणिः ॥ ५७॥
'वितण्डाताण्डवं' व्यर्थप्रलापरूपं नाटकम् । वादिपक्षे-वितण्डावादनटनम् । 'त्यक्त्वा' हित्वा । 'प्रामाणिकशिरोमणिः' सज्जनमुख्यः । पक्षे-प्रमाणशास्त्रिमुख्यः । 'पिता' संयमेच्छु: गोभद्रः । 'साध्यसिद्धयै' संयमसाधनाय । पक्षे-स्वपक्षसाध्यसिद्ध्यै। वादी इव । 'उत्तर' उत्तरन्ति भवसागरं अस्मात् तद् वचनम् । पक्षे-उत्तमम् । 'उत्तरं' प्रतिवचः । 'अवादीत्' जगाद् ।। ५७ ॥
जनकं स्वं कलावन्तं, बुधः सन्निहितः सुतः । त्रायते वत्स ! नो सूर-मपि मन्दस्तमोग्रहात् ॥ ५८ ॥
'वत्स' हे पुत्र ! । 'तमोग्रहात्' पापग्रहणात् । सूर्यचन्द्र-पक्षे-राहुग्रहणात् । 'तमो राहुः सैंहिकेयो' इति हैम्याम् । 'सन्निहितः' समीपस्थः । 'बुधः' पण्डितः । पक्षे-बुधग्रहः । 'सुतः पुत्रः । 'स्वं जनकं' आत्मीयं पितरम् । 'कलावन्तं' कलायुक्तम् पक्षे-चन्द्रम् । 'नो त्रायते' न रक्षति । 'मन्दः' अलसः पुत्रः । पक्षे शनिः । 'मन्दः क्रोडो नील-वासाः' इति हैम्याम् । 'सूरमपि' शूरवीरमपि जनकम् । पक्षे-सूर्यमपि । सूर्यः खलु शनिपिता । न त्रायते ॥ ५८ ॥
प्रदीपनेऽत्र संसारे, पतन्त्येके हया इव । त्रस्यन्ति पुरुषव्याघ्रास्तस्मात्तेनाऽयमुद्यमः ॥ ५९ ॥
'प्रदीपने' अग्निरूपे दावानले । 'अत्र संसारे' इह भवे । 'एके' केचन जनाः । 'हयाः इव' अश्वाः इव पतन्ति । 'पुरुषव्याघ्राः' श्रेष्ठपुरुषाः व्याघ्रतुल्याः पुरुषाः । 'त्रस्यन्ति' त्रासं प्राप्नुवन्ति । त्रस्यन्ति एव अनलदर्शनात् व्याघ्राः । 'तेन' तस्मात् । 'अयं' दीक्षाविषयकः । 'उद्यमः' प्रयासोऽस्ति ॥ ५९ ॥
श्रृङ्गार-परभागाय, तवैवायमुपक्रमः । पितृणां स्वर्गभोगाङ्गैर्महीयन्ते यतः सुताः ॥ ६० ॥
82828282828282828282828282828282888
॥ ११२॥