________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
सपदि । 'उद्यानपालकः' आरामिकः । 'व्यजिज्ञपत्' विज्ञापितवान् । 'महात्मनां' महानुभावानाम् । 'प्रियप्राप्तौ' इष्टलाभे । 'स्पृहामानं' इच्छाकरणमात्रं । हि: निश्चये । विलम्ब: भवति । महात्मानो हि यद् वस्तु यावन्नेच्छन्ति तावदेव तेभ्यः दूरे । अर्थात् जातमात्रेच्छायां तद् वस्तु तैः प्राप्यते ॥ ९ ॥ १० ॥
अथ स्नातानुलिप्ताङ्गः, शुचिवस्त्रविभूषणः । आर सारपरीवारः, श्रीवैभारधराधरम् ॥ ११ ॥
अथ 'स्नातानुलिप्ताङ्गः' आदौ स्नातं पश्चाद् अनुलिप्तं अङ्गं यस्य सः । 'शुचिवस्त्रविभूषण:' पवित्रनेपथ्याभरणः । 'सारपरीवारः' सारभूतः परिवारः यस्य पावें सः । गोभद्रः । श्रीवैभारधराधरं' श्रीवैभाराख्यपर्वतम् । 'आर' जगाम ॥ ११ ॥
स त्रिः प्रदक्षिणीकृत्य, वर्धमानशुभाशयः । श्रीवर्धमानमानम्य, सम्यक् शुश्राव देशनाम् ॥ १२ ॥
'वर्धमानशुभाशयः' वर्धमानः शुभाशयः कुशलाशयः यस्य सः । 'सः' गोभद्रः । 'श्रीवर्धमानं' श्रीवीरजिनम् । 'त्रिः' त्रिवारम् । 'प्रदक्षिणीकृत्य' प्रदक्षिणां दत्वा । 'आनम्य' प्रणम्य । “देशनां' उपदेशम् । 'सम्यक्' शुश्रुषादिधीगुणयुक्ततया सम्यक् । 'शुश्राव' श्रृणोति स्म ॥ १२ ॥
तृष्णाकारिणि संसारे, मरावपतराविह । धर्मो दशभिदा भिन्नः, किल कल्पद्रुमायते ॥ १३ ॥
'अपतरौ' वृक्षविहीने । 'मरौ' मरुदेशे । 'तृष्णाकारिणि' विषयाद्याशाविधायके । मरुपक्षे-पिपासाकारिणि । 'संसारे' भवे । 'दशभिदाभिन्नः' क्षान्त्यादिदशप्रकारैः भिन्नः । धर्मः किल । 'कल्पद्रुमायते' कल्पवृक्षतुल्यः अस्ति-इति श्रीवीरविभोः देशना-सारः ॥ १३ ॥
घनागमस्य मूलेन, शुचिना वचसा विभोः । स शुक्लपाक्षिकत्वेन, धर्ममानसमानशे ॥ १४ ॥
82828282828282828282828282828282888
॥९८॥