________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
'घनागमस्य' घन: बहल: आगम: सिद्धान्त: तस्य । आषाढपक्षे-मेघागमनस्य । 'मूलेन' कारणेन । 'विभोः' श्रीवीरस्य। 'शुचिना' पवित्रेण । पक्षे-आषाढमासेन । 'अथाऽऽषाढः शुचिः' इति हैम्याम् । 'वचसा' वचनेन । 'सः' गोभद्रः । 'शुक्लपाक्षिकत्वेन' आसन्नभव्यत्वेन । पक्षे-शुक्लपक्षः राजहंसः राजहंसत्वेन । 'धर्म मानसं' धर्मचेतः । पक्षेमानसरोवरम् । 'आनशे' व्याप्नोति स्म । अयं भावः यथा आषाढमासे मेघागमनेन राजहंसा: मानसरोवरं व्याप्नुवन्ति तथा श्रीवीरवचसा गोभद्रः धर्ममानसं (धर्ममयचेतः) प्राप्तः ॥ १४ ॥
दीक्षा कृते गोभद्रस्य पत्नी-पुत्राभ्यां सह विचारणास स्वामिनमनुज्ञाप्य, याप्ययानेऽधिरुह्य च । गृहमागत्य सुप्रीतः, प्रेयसीमित्यभाषत ॥ १५ ॥
'सः' गोभद्रः । 'स्वामिनं' वीरजिनम् । 'अनुज्ञाप्य' अनुज्ञां प्राप्य । 'याप्ययाने' शिबिकायाम् । 'अधिरुह्य' आरुह्य । 'गृहं' गेहम् । आगत्य । 'सुप्रीतः' सुतुष्टः । 'प्रेयसीं' पत्नी भद्राम् । इति' अग्रे वक्ष्यमाणम् । 'अभाषत' अकथयत् ।। १५ ॥
वामाङ्गसङ्गतां मुष्टि-ग्राह्यमध्यां सुवंशजाम् । आसन्नभव्यजीवां च, कषरेखापरीक्षिताम् ॥ १६ ॥ बिभ्राणां मार्गणांश्चाप-यष्टिवत् त्वामवाप्य हे । धर्माभ्यासवतां सीमा, सीमन्तिनि ! किलाभवम् ।। १७ ॥
'वामाङ्गसङ्गतां' वामाझं मनोहरशरीरं तेन सङ्गतां युताम् । धनुःपक्षे-सव्याङ्गसहिताम् । धनुः किल शरमोचनसमये वामहस्तेन गृह्यते । 'मुष्टिग्राह्यमध्यां' मुष्टिना ग्राह्यो मध्यभागो यस्याः सा । धनुःपक्षेऽपि मध्यभागः कृशः एव भवति । 'सुवंशजां' सुकुलसम्भूताम् । पक्षे-सुवेणुनिर्मिताम् । 'आसन्नभव्यजीवां' मुक्तेः आसन्नः भव्य: जीवः यस्या सा । पक्षे-आसन्ना संलग्ना भव्या जीवा धनुा यस्याः सा । 'कषरेखापरीक्षितां' कषरेखाभिः शाणरेखाभिः । निकषतुल्यरेखाभिः
828282828282828282828282828282828482
॥२२॥