________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'तस्मिन् उद्धहे' पुत्रे । 'उद्वहोऽङ्गात्मजः सूनुः' इति हैम्याम् । 'भारं' कुटुम्बभारम् । 'न्यस्य' संस्थाप्य । 'व्रतं' प्रव्रज्याम् । 'उद्वहे' गृह्णामीति गोभद्रश्चिन्तयामास ॥ ६ ॥
सुप्रतीके सति प्रीते, प्रतीते दिग्गजेऽङ्गजे । नैशानी यस्त्यजत्याशां, सत्यं पशुपति: स तु ॥ ७ ॥
'सुप्रतीके' शोभनाङ्गे । 'एकदेशे (शरीरस्य) प्रतीकोऽङ्गावयवाऽपघना अपि' हैम्याम् । शङ्करपक्षे-सुप्रतीकनामा ईशानदिग्गजः तस्मिन् । दिग्गजे । 'अङ्गजे' पुढे । 'प्रीते' तुष्टे । 'प्रतीते' प्रख्याते सति । 'यः' पिता । 'ऐशानीमाशां' ऐशानी स्वामितां गृहस्वामितासम्बन्धिनी आशां आकाङ्क्षाम् । पक्षे-ऐशानी आशां दिशम् । 'न त्यजति' न परिहरति । 'सः' पिता । 'पशुपतिः' गोपालः । पक्षे-महादेवः अस्ति ॥ ७ ॥
तद्रूपास्तेऽत्र चिद्रूपा, ईश्वरास्ते च भास्वराः । श्रीवीरं वरिवस्यन्ति, नमस्यन्ति च ये सदा ॥ ८ ॥
'अत्र' भूतले । 'ते चिद्रूपाः' सहृदया: ज्ञानवन्त: । 'तद्रूपाः' ये श्रीवीरमयाः । 'ते ईश्वराः' श्रेष्ठिनः । 'भास्वराः' कान्तिमन्तः । ये सदा श्रीवीरं वरिवस्यन्ति सेवन्ते नमस्यन्ति प्रणमन्ति । च: समुच्चये ॥ ८ ॥
एवं भावयते तस्मै, सद्य उद्यानपालकः । श्रीवीरागमनं नीरा-गमनं धर्मवीरुधाम् ॥ ९ ॥ विज्ञायाऽभ्येत्य विज्ञाय, सुपुण्याय व्यजिज्ञपत् । स्पृहामात्रं विलम्बो हि, प्रियप्राप्तौ महात्मनाम् ॥ १०॥
'एवं भावयते' चिन्तयते । 'विज्ञाय' विचक्षणाय । 'सुपुण्याय' शोभनं पुण्यं यस्य तस्मै सुकृतिने । 'तस्मै' गोभद्राय। 'धर्मवीरुधां' सुकृतवल्लीनाम् । 'नीरागमनं' जलागमनरूपम् । श्रीवीरागमनम् । 'विज्ञाय' ज्ञात्वा । 'सद्यः'
ARRARAUAYA8A82828282828282888