________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'यतः' यस्मात् । 'केऽपि सुता:' पुत्राः । 'द्यूतमिव' दुरोदरवत् । 'वित्तहृतः' धनहरणशीला: । अन्ये तु केचन पूर्ण प्राणमिव प्रकृष्टं ऋणं प्राणं तद्वत् । चिन्तासन्तापहेतवः जायन्ते । इति गोभद्रचिन्तनम् ॥ ३ ॥
अगण्यपुण्यवत् केऽपि, सम्पदानन्ददायिनः । सम्पूर्णीकृतधर्मांशा, द्वित्राः कृतयुगोपमाः ॥ ४ ॥
'अगण्यपुण्यवत्' असीमसुकृतवत् । 'केऽपि' पुत्राः । 'सम्पदानन्ददायिनः' सम्पदं च आनन्दं च ददतीत्येवंरूपाः। 'सम्पूर्णीकृतधर्मांशाः' असम्पूर्णाः सम्पूर्णाः कृताः धर्मस्य अंशा: भागा: यैः ते । 'कृतयुगोपमाः' सत्ययुगसमाः । 'द्विता:' द्वौ वा त्रयो वा एव भवन्ति ॥ ४ ॥
असौ मम पुनः सूनुः, श्रीवृद्धौ कृष्णचित्रकः । चिन्ताशल्यविशल्येव, धर्ममन्दारनन्दनम् ॥ ५ ॥
मम पुन: असौ सूनुः पुत्रः शालिभद्रः । 'श्रीवृद्धौ' लक्ष्मीवृद्धौ । 'कृष्णचित्रकः' कृष्णा चित्रवल्ली । भाषायां 'चित्रावेली' । कृष्णचित्रकसन्निधौ श्री: वृद्धि गच्छति इति श्रुतिः । 'चिन्ताशल्यविशल्या इव' चिन्तारूपशल्यदूरीकरणे विशल्यासती इव । रावणमुक्तशक्तिशल्येन प्रहतः मूच्छित: लक्ष्मणः किल विशल्यासतीस्पर्शत: सचेतनः जातः इति जैनरामायणे । 'धर्ममन्दारनन्दनं' धर्ममन्दार (कल्पवृक्ष) रोहणे नन्दनं देववनम् । वर्तते ॥ ५ ॥
चतुरेऽनातुरे धीरे, द्विधाऽस्मिन् भाद्रमातुरे । मुद्वहे न्यस्य तद्भार-मुद्वहे व्रतमुद्वहे ॥ ६ ॥
'तद्' तस्मात् । 'चतुरे' कुशले। 'अनातुरे' औत्सुक्यरहिते । 'धीरे' धैर्ययुते । 'द्विधा भाद्रमातुरे' सतीपुत्रः भाद्रमातुरः कथ्यते तस्मिन् भाद्रमातुरे भद्रा च माता यस्यासौ तस्मिन्निति एवं द्विधा भाद्रमातुरे । 'मुद्वहे' मुदं वहतीत्येवंशीले ।
ARRARAUAYA8A82828282828282888
॥१६॥