________________
|॥ अथ तृतीयः प्रक्रमः ॥
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ श्रीशालिसौभाग्य-भाग्याभोगसुधाम्बुधेः । सुपर्वसन्निधेर्वेला-वृद्धिहेला विलोक्यताम् ॥ १ ॥
अथ 'श्रीशालिसौभाग्यभाग्याभोगसुधाम्बुधेः' श्रीशाले: श्रीशालिभद्रस्य सौभाग्यं च भाग्यं च सौभाग्यभाग्ये तयोः आभोग: विस्तार: तद्रूप: सुधाम्बुधि: अमृतार्णवः तस्य । सुधाम्बुधिपक्षे-श्रिया शालते शोभते श्रीशाली, श्रीशालिसौभाग्यभाग्यविस्ताररूप: य: सुधाम्बुधि: अमृतसागर: तस्य । 'सुपर्वसन्निधेः' सुपर्वाण: देवाः सन्निधौ समीपे यस्य तस्य । पक्षे-सुपर्व पूर्णिमा सन्निधौ यस्य तस्य । 'वेलावृद्धिहेला' वेलावृद्धिः सम्पत्तिसमयवर्धनं तस्य हेला विलास: । पक्षेवेला समुद्रतीरं तस्य वृद्धः हेला विलासः । 'विलोक्यतां' दृश्यतां श्रूयतामित्यर्थः । पूर्णिमासान्निध्यात् यथा समुद्रवृद्धि: तथा देवसान्निध्यात् शालिभद्रस्य सम्पत्तिवृद्धिरिति भावः ॥ १ ॥
गोभद्रश्चिन्तयामास, सुतास्याम्भोजवीक्षणम् । यतिधर्माध्वपान्थस्य, ममाऽस्तु शकुनः शुभः ॥ २ ॥
'गोभद्रः' शालिपिता । 'चिन्तयामास' चिन्तयति स्म । किं तदित्याह-'यति-धर्माध्वपान्थस्य' साधुधर्ममार्गप्रवासिनः । मम । 'सताम्भोजवीक्षणं' पुत्र मुखकमलदर्शनम् । शुभः शकुनः अस्तु । मार्गे किल कमलदर्शनं शुभं गण्यते ममापि चारित्रमार्गे सुतवदनपङ्कजदर्शनं शुभमेवेति गोभद्रश्चिन्तयति स्मेति भावः ॥ २ ॥
यतो द्यूतमिव प्रायः, केऽपि वित्तहृतः सुताः । पूर्णं प्रार्णमिवाऽन्ये तु, चिन्तासन्तापहेतवः ॥ ३ ॥
ARRARAUAYA8A82828282828282888
॥९५ ॥