________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'त्रिवर्गे' धर्मार्थकामरूपे । 'स्वर्गिवर्गवत्' देववृन्दवत् । तस्य शालिभद्रस्य । 'आद्यन्तग्राहितां' धर्मकामग्राहिताम्। 'ऊहे' चिन्तयामि । कथं तत् ? इति न्यायं दर्शयन्नाह-'आद्यन्तग्रहणे' आदेः अन्तस्य च ग्रहणे मध्यस्यापि ग्रहणं भवति एव । इत्यसौ शालिभद्रः विललास । न कदापि तेन शालिभद्रेण अर्थोपार्जननिमित्तं वाणिज्यादि चके, यथा देवा: न कुर्वन्ति ॥ १३८ ॥
रत्नावापनिपातिकान्तिसलिलः, स्वर्णोज्ज्वलस्कन्धभूः, लक्ष्मीपुष्पसुपल्लवो मरकत-प्रोल्लासिपत्रावलिः । मुक्तापुष्पभरः प्रकल्पितफलः, पुण्याढ्यदृग्गोचरः, सोऽयं कल्पतरुः स्वलङ्कृततनुः, श्रीशालिभद्रः किल ॥१३९॥
सोऽयं स्वलकृततनुः सुमण्डिताङ्गः । श्रीशालिभद्रः किल कल्पतरुः । कल्पद्रुसादृश्यं दर्शयन्नाह'रत्नावापनिपातिकान्ति-सलिलः' रत्नावापेषु मणिनिर्मितकणेषु निपाति निपतनशीलं कान्तिसलिलं देहप्रभाजलं यस्य सः । 'पारिहार्यावापौ च कङ्कणम्' इति हैम्याम् । कल्पतरुपक्षे-रत्ननिर्मितालवाले निपतनशीलं कान्तिपूर्णजलं यस्य । 'आलवालमावालमावापः' इति हैम्याम् । 'सुवर्णोज्ज्वलस्कन्धभूः' सुवर्णवत् उज्ज्वल: स्कन्धभू: अंसप्रदेशः यस्य सः । पक्षे-सुवर्णवत् उज्ज्वल: स्कन्धभूः प्रकाण्डभागः यस्य सः । 'लक्ष्मीपुष्पसुपल्लव:' लक्ष्मीः सम्पत्तिरेव पुष्पाणि सुपल्लवाश्च यस्य सः । अथवा-लक्ष्मीपुष्पवत् माणिक्यवत् रक्तः सुपल्लव: सुपदोः शोभनचरणयोः लवः भागः यस्य सः । पक्षेलक्ष्मीपुष्पवत् पद्मरागवत् रक्ताः सुपल्लवा: किसलयानि यस्य सः । 'लक्ष्मीपुष्पोऽरुणोपलः' इति हैम्याम् । 'मरकतप्रोल्लासिपत्रावलिः' मरकतानां हरिन्मणीनां प्रोल्लासिनीनां देदीप्यमानानां पत्रावलीनां रचना यस्य सः । पक्षे-मरकतवत् हरिन्मणिवत् प्रोल्लासिनां देदीप्यमानानां पत्राणां पर्णानां आवलिः श्रेणिः यस्य सः । 'मुक्तापुष्पभरः' मुक्तापुष्पाणां भर:
ARRARAUAYA8A82828282828282888
॥ २२