SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 समूहः यस्य सः । कल्पतरु-पक्षेऽपि एवमेव । 'प्रकल्पितफलः' प्रकल्पितं निर्मितं फलं दानफलं येन सः । पक्षेप्रकल्पितानि समुत्पन्नानि फलानि यस्मिन् सः । 'पुण्याढ्यदृग्गोचरः' पुण्याढ्यानां श्रेणिकतुल्यानां पुण्यशालिनां दृग्गोचर: नयनविषय: अपुण्यैरदृश्यत्वात् । कल्पतरुरपि पुण्यशालिभिरेव दृश्यते ॥ १३९ ॥ प्रासादे लसदिन्द्रनीलकिरणा-लक्ष्यप्रवेशान्तरे, कृष्णाङ्गागरुधूम्ययाऽथ कबरी-कान्त्या तमः सम्भृते ।। कान्तानां वदनेन्दुभिर्मणिमया-लङ्कारभामिः प्लुते, नो जानात्युदितं न चास्तमितम-प्युद्यद्दिनश्रीरयम् ॥१४०॥ 'उद्यद्दिनश्रीः' सदोदितदिवसश्रीक: रात्रावपि रत्नैः प्रकाश्यमानत्वात् । 'अयं' श्रीशालिभद्रः । 'प्रासादे' निजमन्दिरे। सूर्यस्य रखेः । 'नो उदितं' न उदयम् । 'न च अस्तमितं' न च अस्तम् । जानाति । कथम्भूते प्रासादे ? 'लसदिन्द्रनीलकिरणलक्ष्यप्रवेशान्तरे' लसदिन्द्रनीलकिरणैः स्फुरनीलमणिकिरणैः अलक्ष्यः अन्यप्रवेश: अन्यकिरणप्रवेश: यत्र तस्मिन् । अथ कृष्णाङ्गागरुधूम्यया श्यामवर्णाऽगरुधूमसमूहै: । 'कबरीकान्त्या' प्रियतमानां केशवेषप्रभया च । 'तमःसम्भृते' अन्धकारपूर्णे । इन्द्रनीलमणिः, कृष्णागरुधूमः, कबरी-इमानि त्रीणि श्यामवर्णानि अत: तत्कान्तिरपि श्यामैव स्यात् । तत: प्रासादोऽपि तम: सम्भृतः भवति एव । 'तम:संसते तम:पूरिते तम:संवृत्ते' इति त्रीणि पाठान्तराणि । 'कान्तानां' प्रियतमानाम् । 'वदनेन्दुभिः' मुखचन्द्रैः । 'मणिमयालङ्कारभाभिः' रत्नमयाभूषणकान्तिभिश्च । 'प्लुते' प्रकाशिते । अयं भावः-शालिभद्रप्रासादे बाह्याऽनपेक्षौ एव प्रकाशान्धकारौ जायते । रत्न-भूषण-मुखचन्द्रैः प्रकाशः, इन्द्रनील-धूमकबर्यादिभिश्च अन्धकार: भवति । तस्मात् प्रासादान्तर्वतिनौ प्रकाशान्धकारौ न सूर्योदयास्तौ अपेक्षेते । तेन शालिभद्रः सूर्यस्य उदयास्तौ न जानाति ॥ १४० ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥ ९३
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy