________________
श्री
शालिभद्र
महाकाव्यम्
Terr
'गजेन्द्रगतिविभ्रमात्' गजराजगमनलीलया । 'गजेन्द्रगतिभिः भ्रमात्' इति वा पाठान्तरे भ्रमात् भ्रमणात् गमनात् गजेन्द्रगतिभिः ताभिः । 'रङ्गभूमौ' रङ्गस्य रागस्य नृत्यस्य वा । 'भूमौ' स्थाने 'मिलन्तीभिः ' सङ्गच्छन्तीभिः । 'प्रीतितृप्ताभिः ' प्रीत्या शालिप्रीत्या तृप्ताभिः तुष्टाभिः । ताभिः ' प्रियतमाभि: । 'सः' शालिभद्रः । 'नारीकुञ्जरतां' नारीषु कुञ्जरताम् । 'ययौ' गतवान् ॥ १३४ ॥
कुलावतंसकः सोऽथ, स्वप्रासादावतंसके । मृदङ्गोत्तुङ्गधोङ्कारैः, सुखौङ्कारैरिव स्फुटम् ॥ १३५ ॥ प्रवीणवीणाझात्कारैः, सत्यङ्कारैर्मनोऽर्पणे । गीतैर्दिव इवानीतैर्लास्यैरास्यैर्मुदामिव ॥ १३६ ॥ विषमायुधभूपस्य, कटकैरिव नायकैः । निन्ये कालं पञ्चाङ्गैर्मोहमन्त्रसखैः सुखैः ॥ १३७ ॥ (विशेषकम् ) 'स्वप्रासादावतंसके' निजोत्तममन्दिरे । 'कुलावतंसकः' कुलश्रेष्ठः । 'सः' शालिभद्रः । 'स्फुटं' स्पष्टम् । 'सुखौङ्कारः' सुखार्थं प्रणवैरिव । 'मृदङ्गोत्तुङ्गधोङ्कारैः ' मृदङ्गानां मुरजानां उत्तुङ्गधोङ्कारैः उच्चधोङ्कारनादैः ॥ १३५ ॥ 'मनोऽर्पणे' मनो-विक्रये । 'सत्यङ्कारैः' सत्यापनैरिव । 'डीपोझीट' (सूथी) इति भाषायाम् । प्रवीणवीणाझात्कारैः ' प्रवीणवीणानां झात्कारशब्दैः । 'दिवः' स्वर्गात् । आनीतैरिव । 'गीतैः' सङ्गीतैः । 'लास्यैः' नाट्यैः । 'लास्यं नाट्यं च ताण्डवम्' इति हैम्याम् । 'मुदां' आनन्दानाम् । 'आस्यैरिव' वदनैरिव ॥ १३६ ॥ 'विषमायुधभूपस्य' कामनृपस्य । 'कटकैरिव' बलैरिव । नायकैः । 'मोहमन्त्रसखैः' मोहभूपस्य मन्त्रे मन्त्रणायां विचारणायां सखिभिः मित्रैः । 'पञ्चाङ्गैः ' पञ्चेन्द्रियजन्यैः । सुखैः । 'सः' शालिभद्रः । कालं निन्ये नयति स्म ॥ १३७ ॥
आद्यन्तग्रहणे मध्य-स्यापि ग्रहणमित्यसौ । आद्यन्तग्राहितामूहे, त्रिवर्गे स्वर्गिवर्गवत् ॥ १३८ ॥
328
द्वितीयः
प्रक्रमः
॥ ९१ ॥