________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
सेनापक्षे-चक्रव्यूह-गरुड-व्यूहादिलक्षणाः । 'गुणाढ्यचतुराञ्चिताः' गुणपूर्णप्रवीणपुरुषेण शालिभद्रेण अञ्चिता: युताः । पक्षेगुणाढ्य-हस्तिशालायुताः । 'हस्तिशाला तु चतुरा' इति हैम्याम् । 'गुरुडम्बरश्रृङ्गाराः' महाऽऽडम्बरमण्डनाः । पक्षे गुरुडम्बरः अत्याडम्बर: एव श्रृङ्गार: भूषणं यासु ताः । 'कायमानमनोरमाः' कायमानेन परिमितेन देहप्रमाणेन मनोरमाः मनोहराः । पक्षे-तृणोटजमनोज्ञाः । 'कायमानं तृणौकसि' इति हैम्याम् । 'गजेन्द्रगतिविस्तारा' गजेन्द्रवत् गत्या रमणीयगत्या विस्तारो यासां ताः । पक्षे-गजेन्द्रगतिभिः हस्तीन्द्रगमनै: विस्तारो यासां ताः । 'गन्धर्वकलया' देवगायनकलया । 'कला:' मधुररवाः । पक्षे-गन्धर्वकलया अश्वकलया कला: मनोहराः । 'गन्धर्वोऽर्वा सप्तिवीति' इति हैम्याम् । 'शताङ्ग-गुणसन्दोहाः' शतानां अङ्गगुणानां समूहाः यासां ताः । पक्षे-शताङ्गनानां युद्धरथानां गुणसमूहः यासु ताः । 'शताङ्गः स्यन्दनो रथः' इति हैम्याम् । 'पदातिरुचिरश्रियः' पदाभ्यां स्वस्वपदाभ्यां अतिरुचिरा अतिमनोहरा श्री: शोभा यासां ताः । पक्षे-पदातिभिः पत्तिभिः अतिरुचिरा अतिमनोज्ञा श्रीः शोभा यासां ताः ॥ १३० ॥ १३१ ॥ १३२ ॥
अनासक्तः शालिभद्रः । असौ हिरण्यवर्णासु तास्वन्तः प्रतिबिम्बित: । रसोर्मिलालितोऽप्यागात् सुधामूर्तिर्न लोलताम् ॥ १३३ ।।
'हिरण्यवर्णासु'सुवर्णवर्णासु। पक्षे-नदीषु। 'नदी हिरण्यवर्णा स्याद्' इति हैम्याम्। तासु'प्रियतमासु। अन्तःप्रतिबिम्बितः' हृदये सङ्क्रान्तः । 'सूधामूर्तिः' अमृतघटितदेहः । 'रसोर्मिलालितोऽपि' रसेन प्रियानेहेन लालितोऽपि। पक्षे-रसोर्मिभिः जललहरीभिः लालितोऽपि नापितोऽपि । 'असौ' शालिभद्रः । 'लोलतां' गृद्धिम् । 'न आगात्' न प्रापत् ।। १३३ ।।
रङ्गभूमौ मिलन्तीभिः, गजेन्द्रगतिविभ्रमात् । स ताभिः प्रीतितृप्ताभिः, नारीकुञ्जरतां ययौ ॥ १३४ ॥
828282828282828282828282828288888
॥९०