________________
श्री
शालिभद्र महाकाव्यम्
FRERURY
निरन्तरस्फुरद्व्याख्या, विषमेष्वर्थदीपिकाः । कामसूत्रे चिरण्टीकाः, चिरण्टी: कायवत्तराः ॥ १२८ ॥ द्वितीयः विभाव्य भूषणानीन्दु - विभाव्ययकराण्यदात् । ताभ्यश्चक्षुर्महेभ्यः स, महेभ्यः सभ्यसौरभः ॥ १२९ ॥
प्रक्रमः
'कामसूत्रे' कामशास्त्रे । 'निरन्तरस्फुरद्व्याख्या:' निरन्तरं स्फुरन्त्यः व्याख्या: यासु ताः । वधूपक्षे निरन्तरं स्फुरन्त्यः व्याख्या: वचनानि विशेषेण आख्याः नामानि वा यासां ताः । 'विषमेष्वर्थदीपिका' विषमेषु पदेषु अर्थप्रकाशिकाः । पक्षे - विषमेषुः कामः तस्य अर्थदीपिकाः कामभावदर्शिका: इत्यर्थ: । 'चिरण्टीका:' प्राचीनटीकातुल्याः । 'कायवत्तराः ' प्रकृष्टदेहाः । 'चिरण्टीः' वधूटी: पुत्रवधूः । 'विभाव्य' विलोक्य ज्ञात्वा इत्यर्थः । 'सभ्यसौरभ : ' सभ्येषु सभासदेषु
गुणसौरभं यस्य सः । 'महेभ्यः' श्रेष्ठी गोभद्रः । 'चक्षुर्महेभ्यः' नयनोत्सवभूताभ्यः । 'ताभ्यः' वधूभ्यः । 'इन्दुविभाव्ययकराणि' चन्द्रप्रभातिरस्कारकराणि । 'भूषणानि' आभरणानि । 'अदात्' ददाति स्म ॥ १२८ ॥ १२९ ॥
चक्रादिलक्षणव्यूहा, गुणाढ्यचतुराञ्चिता । गुरुडम्बरश्रृङ्गाराः, कायमानमनोरथाः ॥ १३० ॥ गजेन्द्रगतिविस्तारा, गन्धर्वकलया कलाः । शताङ्गगुणसन्दोहाः, पदातिरुचिरश्रियः ॥ १३१ ॥ उत्सर्पद्दर्पकन्दर्प- राजराजस्य दिग्जये । ताः शालिकलिताः सेना:, सेना आवासिता इव ॥ १३२ ॥ (विशेषकम् )
328
'उत्सर्पद्दर्पकन्दर्पराजराजस्य' उत्सर्पन् दर्पः यस्य सः कन्दर्पः कामः राजराजः महाराजः तस्य । 'दिग्विजये' दिग्जये । 'ता:' शालिभद्रकान्ता: । 'सेना:' इनेन भर्त्रा शालिभद्रेण सहिताः शालिकलिता: । 'आवासिताः ' सन्निवेशिताः । 'सेना: इव' वाहिन्यः इव । ‘रेजुः’ राजन्ते स्म । कथम्भूताः ताः ? 'चक्रादिलक्षणव्यूहा: ' देहे चक्राङ्कुशादि-लक्षणसन्दोहा: ।
॥ ८९ ॥