________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'व्योममण्डलविस्तारं' व्योममण्डलवत् आकाशमण्डलवद् विस्तारः यस्य तद् । 'वरमण्डपं' श्रेष्ठमण्डपम् । 'विधाय' कृत्वा ॥ १२० ॥ 'पुष्पप्रकरनिक्षेपैः' कुसुमसमूहनिक्षेपैः । 'वसन्तसमयायितं' वसन्तसमयसमानम् । 'काश्मीरस्तबकालोकैः' घुसृणगुच्छदर्शनैः । 'स्मेरकश्मीरविस्मयं' विकसितकश्मीरदेश-तुल्यं तं (वीवाहम्) दृष्ट्वा नृणां विस्मयो जातो यस्मिन् तम् । 'दिव्यैः दूष्यैः' दिव्यवस्त्रैः । 'अलङ्कारः' भूषणैः । 'सुपर्वनगरायितं' देवनगरसमानम् । 'नागवल्लीदलैः' नागवल्लीपर्णैः । 'पूगपूगैः' क्रमुकसमूहैः । 'कौङ्कणकोणितं' कोंकणदेशस्य विभागतुल्यम् ॥ १२२ । । 'नृत्तप्रवृत्तसङ्गीतैः' नृत्तेन नर्तनेन सह प्रवृत्तानि सङ्गीतानि तैः । 'गान्धर्वनगरोपमं' गान्धर्वनगरतुल्यम् ।। 'मङ्गलोलूलुकल्लोलैः' मङ्गलार्थं 'उलूलु' इति स्त्रीभिः उद्गीयमानशब्दतरङ्गः । 'स्मेरस्मरजयारवं' विकस्वरकामविजयध्वनिम् ॥ १२३ ॥ 'प्राज्यभोज्याज्य-साम्राज्यैः' स्फारभोज्यघृतसाम्राज्यैः । 'पक्वान्नैः' पक्वैः अन्नैः मिष्टान्नैः । व्यञ्जनैः । 'फलावलीपयःपूरैः' फलश्रेणिभिः दुग्धपूरैश्च । 'विश्वावारितसत्रवत्' विश्वस्य अवारितं अविरतं सन्ततं प्रवर्तमानं सत्रं दानशाला तत्तुल्यम् ॥ १२४ ॥ 'सन्मान्यमानस्वजनं' सन्मान्यमानाः स्वजना: यत्र । 'प्रीतयाचकचातकं' प्रीता: तृष्टाः याचकाः एव चातकाः यत्र । 'अवार्यतूर्यनिर्घोषं' अवार्यः तूर्यनिर्घोिषो यस्मिन् तम् । 'जिनार्चाभिः' जिनपूजाभिः जिनप्रतिमाभिर्वा । अर्चाशब्दः प्रतिमायामपि । 'अधिष्ठितं' आश्रितम् ।। १२५ ॥ 'प्रगल्भाभिः' कुशलाभिः । 'पुरन्ध्रीभिः' महिलाभिः । 'सत्यापितविधिक्रम' सत्यापितः सुविहितः विधिक्रमः यत्र । 'लक्ष्मीपूरपरीवाहं' लक्ष्मीपूरस्य प्रवृद्धस्य लक्ष्मीजलप्रवाहस्य परीवाहः निर्गममार्गः यत्र । 'सुमहामहं' मनोज्ञ-महोत्सवः यत्र तम् ॥ १२६ ॥ 'पौलोम्याः इव' इन्द्राण्याः इव । 'भद्रायाः' गोभद्रप्रियायाः । 'पुलकावह' रोमाञ्चकरम् । 'वासवः' इन्द्रः । 'जयन्तस्य इव' तत्पुत्रस्य (इन्द्रपुत्रस्य) इव । 'गोभद्रः' शालिपिता । शालिभद्रस्य वीवाहं कारयामास ॥ १२७ ।।
ARRARAUAYA8A82828282828282888
।।८८॥