SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282882 8282828282828282828282828282 इति द्वात्रिंशत् । किंवा स्वःस्त्रीकोट्यष्टकात् स्वःस्त्रीणां देवाङ्गनानां कोट्यष्टकात् चतुष्काष्टकं (८ x ४ = ३२) उध्दृतम् ? 'सर्वाः व्यन्तरेन्द्रश्रियः' अष्ट व्यन्तरभेदा: अष्ट च वानव्यन्तरभेदाः तेषां उत्तरदक्षिणश्रेणिमीलने द्वात्रिंशद् व्यन्तरेन्द्राः तेषां श्रियः । 'इन्दोः' चन्द्रस्य वा द्विधा कलाः कृता ? (१६ + १६ = ३२) याः रूपातिशयश्रिया रूपातिशयस्य श्रिया शोभया। प्रतिभासन्ते ॥ ११८ ॥ ११९ ॥ श्रीसन्नाहः सार्थवाहः, सोत्साहस्वजनस्ततः । व्योममण्डलविस्तारं, विधाय वरमण्डपम् ॥ १२० ॥ पुष्पप्रकरनिक्षेपैर्वसन्तसमयायितम् । काश्मीरस्तबकालोकैः स्मेरकश्मीरविस्मयम् ॥ १२१ ॥ दिव्यैर्दूष्यैरलङ्कारैः सुपर्वनगरायितम् । नागवल्लीदलैः पूग-पूगैः कौङ्कणकोणितम् ॥ १२२ ॥ नृत्तप्रवृत्तसङ्गीतैर्गांधर्वनगरोपमम् । मङ्गलोलूलुकल्लोलैः, स्मेरस्मरजयारवम् ॥ १२३ ॥ प्राज्यभोज्याज्यसाम्राज्यैः, पक्वानैर्व्यञ्जनैरपि । फलावलीपयः पूरैः, विश्वावारितसत्रवत् ॥ १२४ ॥ सन्मान्यमानस्वजनं, प्रीतयाचकचातकम् । अवार्यतूर्यनिर्घोषं, जिनार्चाभिरधिष्ठितम् ॥ १२५ ॥ प्रगल्भाभिः पुरन्ध्रीभिः, सत्यापितविधिक्रमम् । लक्ष्मीपूरपरीवाहं, वीवाहं सुमहामहम् ॥ १२६ ॥ कारयामास भद्रायाः, पौलोम्या: पुलकावहम् । गोभद्रः शालिभद्रस्य, जयन्तस्येव वासवः ॥ १२७ ॥ (अष्टभिः कुलकम्) तत: । 'श्रीसन्नाहः' श्रीकवचित: श्रीयुतः इत्यर्थः । 'सोत्साहस्वजन:' सोल्लासनिजपरिवारः । 'सार्थवाहः' गोभद्रः । 828282828282828282828282828282828282 ॥८७
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy