________________
श्री
शालिभद्र महाकाव्यम्
Terr
॥ ११४ ॥ 'भद्रश्लोकान्वेषी' निर्मलयशःकामी । कविपक्षे- मङ्गलश्लोकेच्छुः । 'कविः' काव्यकृत् । 'वर्णावलीः इव' द्वात्रिंशद् वर्णश्रेणी: इव । अनुष्टुभि किल द्वात्रिंशद् वर्णाः । शालिपक्षेऽपि द्वात्रिंशत् पत्न्यः भवित्र्य: । 'गोभद्रः ' शालिपिता । 'सर्वत: ' सर्वमहेभ्यगेहेषु । 'अन्योन्यसदृशीः ' मिथः समरूपा: मिथः समस्वभावाः । कविपक्षे अन्योन्यसमप्रासा: । 'बालाः ' कन्या: । 'व्यचिन्तयत्' चिन्तितवान् ॥ ११५ ॥
पद्मास्याः पद्मनिः श्वासाः, पद्मोपमकरक्रमाः । पद्मनाभीः पद्मनेत्राः, पद्मिनीस्तत्र चान्तरे ॥ ११६ ॥ कन्या द्वात्रिंशतं धन्याः, कुलशीलगुणैः समाः । महेभ्यास्तत्र वास्तव्याः, कुमारार्थमुपानयन् ॥ ११७ ॥ 'तत्र च अन्तरे' तस्मिन् च अवसरे । 'पद्मास्याः पद्मवदनाः । 'पद्मनि:श्वासाः' पद्मसुरभिश्वासाः । 'पद्मोपमकरक्रमाः' पद्मतुल्यहस्तपादाः । 'पद्मनाभी : ' पद्मवत् गम्भीरनाभीः ॥ ११६ ॥ धन्याः कुलशीलगुणैः समाः द्वात्रिंशतं पद्मिनी । पद्मिन्यादिचतुः प्रकाराः स्त्रियः तासु पद्मिनी श्रेष्ठा । तत्स्वरूपं चेदं रतिमञ्जर्याम् भवति कमलनेत्रा, नासिकाक्षुद्ररन्ध्रा, अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी । मृदुवचनसुशीला, नृत्यगीतानुरक्ता, सकलतनुसुवेशा, पद्मिनी पद्मगन्धा ॥ तत्र वास्तव्याः' राजगृहनिवासिनः । 'महेभ्याः श्रेष्ठिनः । 'कुमारार्थं' शालिकुमारकृते । 'उपानयन्' आनीतवन्तः ॥ ११७ ॥
विद्याऽधिदेवताः मूलोत्तरवैक्रियमूर्तयः । स्वः स्त्रीकोट्यष्टकात् किंवा, चतुष्काष्टकमुद्धृतम् ॥ ११८ ॥ व्यन्तरेन्द्रश्रियः सर्वाः, द्विधेन्दोर्वा कलाः कृताः । सप्रभाः प्रतिभासन्ते, या रूपातिशयश्रिया ॥ ११९ ॥ ( युग्मम् ) 'विद्याऽधिदेवता:' प्रज्ञप्त्यादयः षोडश विद्यादेव्यः । 'मूलोत्तरवैक्रियमूर्तयः' मूलरूपधारिण्यः वैक्रियरूपधारिण्यश्च
328
द्वितीय:
प्रक्रमः
॥ ८६ ॥