________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
शालिभद्रस्य । 'तानि' ऊध्वरेखावयव-हस्तपादौष्ठ-रक्तादीनां लक्षणवृक्षाणां फलानि किं वर्ण्यतां विद्वद्भिः? यस्य भाविनः धुभोगाः दिव्यभोगाः भविष्यन्ति । भाविकाले किल स गोभद्रदेवप्रेषितदिव्यभोगान् प्राप्स्यति इत्यर्थः ॥ १११ ॥
धर्मस्त्रिवर्गेषु धर्मेषु, दानं दानेष्वपि त्रिषु । अन्नदानमथान्नेषु, सुकुमारं हि पायसम् ॥ ११२ ॥ यद्देहस्तदुपादान-निदानां ह्याददे ततः । कुमारः सुकुमारेषु, सुषमारेखयाऽरुचत् ॥ ११३ ॥ (युग्मम् )
'त्रिवर्गे' धर्मार्थकामात्मके त्रिवर्गे । 'धर्मः' प्रधानः । 'धर्मेषु' दानशीलतपोभावेषु । 'दानं' प्रधानम् । 'त्रिषु दानेषु अपि' ज्ञानाभयान्नदानेषु अपि । 'अन्नदानं' प्रधानम् । अथ अन्नेषु सुकुमारं सुकोमलं हि पायसं परमान्नं अस्ति ॥ ११२ ॥ 'यद्देहः' शालिभद्रशरीरम् । 'उपादाननिदानं' उपादानकारणम् । 'आददे' गृहणाति स्म । त्रीणि किल कारणानि (१) उपादानकारणम् (२) निमित्तकारणम् (३) सहकारिकारणम् । एतेषु शालिभद्रशरीरेण परमान्नरूपं उपादानकारणं गृहीतम् । तत: कुमार: शालिभद्रकुमारः । 'सुकुमारेषु' पदार्थेषु । 'सुषमारेखया' सुषमा अतिशायिनी शोभा तरेखया । "लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी" इति हैम्याम् । 'अरुचत्' शोभते स्म ॥ ११३ ॥
शालिभद्रस्य पाणिग्रहणम्वनं चैत्ररथं यद्वत्, चैत्रमैत्रीपवित्रितम् । पुत्ररूपं तथाऽऽलोक्य, तारुण्यसफलीकृतम् ॥ ११४ ॥ गोभद्रः सर्वतो भद्र-श्र्लोकान्वेषी व्यचिन्तयत् । अन्योऽन्यसदृशीर्बालाः, कविवर्णावलीरिव ॥ ११५ ॥
'यद्वत्' यथा । चैत्रमैत्रीपवित्रितं चैत्रमैत्र्या चैत्र-मासस्य मैत्र्या पवित्रितं शुचीभूतम् । 'चैत्ररथं' तन्नामकं कुबेरस्य वनं वर्तते । तथा 'तारुण्यसफलीकृतं' तारुण्येन यौवनेन सफलीकृतम् । 'पुत्ररूपं' शालिरूपम् । 'आलोक्य' दृष्ट्वा
828282828282828282828282828282828282
॥८५ ॥