________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तेन श्रुतेन दृष्टेन, चित्तचित्रकृतेन वा । जनोऽभिहितमात्रेण, धर्मेणेव कृतार्थितः ॥ १०८ ॥
'जन:' लोकः । 'तेन श्रुतेन' श्रवणविषयीकृतेन शालिभद्रेण । 'दृष्टेन' नेत्रविषयीकृतेन । 'चित्तचित्रकृतेन' चित्ते चित्रवत् स्थापितेन । 'अभिहितमात्रेण वा' उक्तमात्रेण वा शालिभद्रेण । धर्मेण इव । 'कृतार्थितः' कृतकृत्यो भवति। यथा धर्मः दृष्टः श्रुत: चिन्तित: कथितः वा कृतार्थतां करोति तथा शालिभद्रोऽपि इत्यर्थः ॥ १०८ ॥
दृशः पातालबालानां, तद्रूपालोकवञ्चिताः । चक्षुः कर्णतयाऽऽकर्ण्य, तत्कीर्तीर्जहषुः सुखात् ॥ १०९ ॥
'चक्षुःकर्णतया' चढूंषि एव कर्णा यासां ताः चक्षुःकर्णाः तासां भावः तया । सर्पाः किल दृक्कर्णाः । 'तत्कीर्तीः' शालिभद्रगुण-कीर्तनानि । 'आकर्ण्य' वा । 'पातालबालानां' नागाङ्गनानाम् । तद्रूपालोकवञ्चिताः' शालिरूपदर्शनरहिताः। 'दृशः' नयनानि । सुखात् । 'जहषुः' हर्षं प्राप्तवत्यः ॥ १०९ ॥
तद्रूपमिव तद्रूपं, तद्वचस्तद्वचः किल । तद्भाग्यमिव तद्भाग्यं, तद्गुणास्तद्गुणा इव ॥ ११० ॥
'तद्रूपं' शालिभद्ररूपम् । 'तद्रूपमिव' शालिभद्ररूपमिव अस्ति । तद्वचः तद्वचः किल । अत्र 'किल' इवार्थे । तद्भाग्यमिव तद् भाग्यम् । तद्गुणाः तद्गुणा इव । अयं भाव:-न किञ्चित् जगति वस्तुजातं, येन शालिभद्ररूपवचोभाग्यगुणादयः उपमीयन्ते। यदुक्तम्-"गगनं गगनाकारं, सागरः सागरोपमः । रामरावणयोर्युद्धं, राम-रावणयोरिव ॥ १ ॥ ११० ॥
फलं लक्षणवृक्षाणां, चक्रिभोगाः किलोत्तमम् । वर्ण्यतां तानि किं तस्य, धुभोगा यस्य भाविनः ॥ १११ ॥ 'लक्षणवृक्षाणां' सामुद्रिकलक्षणतरूणाम् । 'चक्रिभोगाः' चक्रिणां भोगा: । किल उत्तमं फलं भवति । 'तस्य'
satasa8RSR88RSONASRSASASASRSANASNA
॥८४॥