________________
द्वितीयः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
वसति इत्येवंशीलम् । 'तपस्वि' कुमुदं दिने न भोजि, यतः दिने सङ्कचति, अत एव तपस्वि वराकं वा । 'राजवशोन्मेषनिमेषि' राजा-चन्द्रः, 'राजा निशारत्नकरौ च चन्द्रः' इति हैम्याम् । तस्य वशौ अधीनौ उन्मेषौ निमेषौ सङ्कोच-विकासौ । स्वामित्वार्थे इन् । 'उत्पलं' कुमुदम् । 'किं' कथम् । स्पर्धताम् ? ॥ १०४ ।।
भालं भाऽलङ्कृतं तस्याऽष्टमीचन्द्रोदयः स्फुटम् । यत्कान्तिः क्षमदाङ्गा), मुखं प्लावयतेतराम् ॥ १०५ ॥
'तस्य' शालेः । 'भाऽलङ्कृतं' भाभिः प्रभाभिः अलङ्कृतम् । 'भालं' ललाटम् । 'स्फुटं' स्पष्टम् । अष्टमीचन्द्रोदयः अस्ति । 'यत्कान्तिः' ललाटप्रभा । 'क्षणदाङ्गार्धं' क्षणं उत्सवं ददाति इत्येवंशीलं क्षणदं यद् अङ्गं शरीरं तस्य अर्धम् । 'मुखम्' वदनम् । मुखं शरीरार्धमिति श्रुतेः । 'प्लावयतेतरां' द्योतयतितराम् । अष्टमीचन्द्रपक्षेक्षणदाया: रात्रेः अङ्गार्धं प्रहरद्वयं यावत् । अष्टमीचन्द्रः किल अर्धरात्रि यावदेव प्रकाशते ॥ १०५ ।।
कबरी कज्जलश्यामा, भाति तस्य सचम्पका । स्वर्णाक्षरा स्मरजय-प्रशस्तेरिव पट्टिका ॥ १०६ ॥
'तस्य' शाले: । 'कबरी' धम्मिल्लः । 'भाति' शोभते । कथम्भूता सा? 'स्मर जय प्रशस्तेः' कामविजययशोगाथायाः। स्वर्णाक्षरा पट्टिका इव । 'सचम्पका' चम्पकपुष्पयुक्ता । 'कज्जल-श्यामा' कज्जलवत् अञ्जनवत् श्यामा कृष्णा ॥ १०६ ॥
रूपमन्यमनुष्याणां, वर्ण्यमानमध: पतेत् । उच्चैरेव पुनस्तस्य, स्वर्गिवर्गोत्तमाकृतेः ॥ १०७ ॥
'अन्यमनुष्याणां' शालिभद्राद् अन्यमानवानाम् । वर्ण्यमानं रूपम् । 'अध:पतेत्' देववर्गात् अधस्तनोपमायोग्यं भवेत् । किन्तु 'स्वर्गिवर्गोत्तमाकृतेः' स्वर्गिवर्गादपि देववृन्दादपि उत्तमाकृतेः श्रेष्ठाकारस्य । 'तस्य' शालिभद्रस्य । 'उच्चैरेव गच्छेत्' देववर्गादपि उच्चस्तरोपमायोग्यं भवेत् ॥ १०७ ।।
satasa8RSR88RSONASRSASASASRSANASNA
॥८३॥